पृष्ठम्:Laghu paniniyam vol1.djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इव्यवस्था] परिनिष्ठाकाण्ड: । २११ , कम् । आर्धधातुकस्य धातुविशेषेण इडागमो भवति । तत्र तौदादिक- स्यादादिकस्य च विद्धातोरिडागमोऽस्ति, अन्ययोस्तु नास्तीति रूप- भेदः । स्यप्रत्यय इडागमेन 'इस्य' इति तत 'आदेशप्रत्यययो: ' (३७५) इति षत्वेन 'इष्य' इति च रूपमापद्यते । तेन वेदिष्यते वेदि- ब्येते वेदिष्यन्ते वेदिष्यति इत्यादि वा रूपाणि । अन्ययोस्तु 'वेत्स्यते' इत्यादिरूपाणि || इह ह्यार्धधातुकेषु इडागमस्य सत्त्वासत्त्वविकल्पै: सेटः, अनिटः, चेटश्चेति त्रिविधा धातवः संपद्यन्ते । अत इव्यवस्थां तावद्वक्ष्यामः- इयवस्था | ६४२ । आर्धधातुकस्येवलादेः । (७-२-३५) वलादेरार्धधातुकस्य इडागम: स्यात् । वल्प्रत्याहारश्च यकार- भिन्नानि व्यञ्जनानि क्रोडीकरोति । यथा - धातुः भू शीङ् एघ - -- भविष्यति शयिष्यते एधिष्यते तासि भविता शयिता एधिता प्रस्नविष्यति क्रमिष्यति तव्य भवितव्यम् शयितव्यम् एधितव्यम् प्रस्नविता क्रमिता चक्ष्यमाणान् निषेधान् बाधितुं विशेषविधय आरभ्यन्ते - ६४३ । स्नुक्रमोरनात्मनेपद निमित्ते । (७-२-३६) अनयोर्वलादेरार्धधातुकस्य इट्, एतौ चेत् आत्मनेपदस्य निमित्तं न भवतः । भावकर्मकर्मकर्तृकर्मव्यतीहारादीनि आत्मनेपदनिमित्तानि वक्ष्यन्ते । यथा , तुमुन् भवितुम् शयितुम् एधितुम् प्रस्नवितव्यम् क्रमितव्यम् - प्रस्नवितुम् क्रमितुम् अनात्मनेपदनिमित्ते एवानयोरिडागम इति नियमार्थ सूत्रम् । तथा च आत्मनेपद- निमित्तेषु प्रस्त्रोष्यते, उपक्रंस्यते इति इट् नास्त्येव । तथा च आत्मनेपद-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२३०&oldid=347599" इत्यस्माद् प्रतिप्राप्तम्