पृष्ठम्:Laghu paniniyam vol1.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१० लघुपाणिनीये तत्र प्रथमं ऌद्-लुङौ स्यसंस्करणकौ । (१) दाञ् दाने—'स्यतासी लृलुटो:' (४५४) इति स्यप्रत्ययः संस्करणम् । तिबादिप्रत्यययोगेन रूपनिष्पत्ति:- दास्यति दास्यतः दास्यन्ति । दास्यसि दास्यथः दास्यथ । दास्यामि दास्यावः दास्यामः । [लट्-लडौ स्यसं० - दास्य से दास्ये दास्यते दास्येते दास्यन्ते । दास्येथे दास्यध्वे । दास्यावहे दास्यामहे । स्यप्रत्ययस्य अदन्तत्वात् 'अतो दीर्घो यञि' (४६७) इति दीर्घ:, ‘आतो ङित:' (५०९) इति इयादेशश्च भवतः ॥ ऌङयडागमः- अदास्यत् अदास्यताम् अदास्यन् । अदास्यः अदास्यतम् अदास्यत । अदास्यम् अदास्याव अदास्याम | अदास्यत अदास्येताम् अदास्यन्त । अदास्यथाः अदास्येथाम् अदास्यध्वम् । अदास्ये अदास्यावहि अदास्यामहि | विकरणभेदाभावात् 'दाण् दाने' इति भौवादिकस्य 'दो (=दा) अवखण्डने' इति दैवादिकख 'दाप् लवने' इत्यादीनामन्येषां च तुल्य- मेव ऌट्–लङो: रूपम् ।। (२) जि जय – इगन्तत्वात् गुणः ॥ जेष्यति, जेष्यतः, जेष्यन्ति । अजेष्यत्, अजेष्यताम् इत्यादि । (३) विद विचारणे – इगुपधत्वात् गुणः ॥ वेत्स्यते वेत्स्येते वेत्स्यन्ते । अवेत्स्यत अवेत्स्येताम् इत्यादि । “सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे । विन्दते विन्दति प्राप्तौ श्यन् लुक् श्नं शेष्विदं क्रमात् ॥ - - इति चतुर्षु विकरणेष्वयं धातुरर्थभेदेन पदभेदेन च पठ्यते । लट्- लङोस्तु विकरणभेदाभावात्तुल्यरूपतैव स्यात् । तथापि 'विद विचारणे' इति रौधादिकस्य 'विद सत्तायाम्' इति देवादिकस्य च परं रूपभेदो- ऽस्ति । तत्र च निमित्तमिडागमः । स्यप्रत्ययो हि शित्त्वाभावादार्धधातु-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२२९&oldid=347598" इत्यस्माद् प्रतिप्राप्तम्