पृष्ठम्:Laghu paniniyam vol1.djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जुहोत्यादिगण:] परिनिष्ठाकाण्ड: । ५९९ । पूर्वोऽभ्यासः । (६-१-४) द्विरुक्तस्य पूर्वे रूपमभ्याससंज्ञं स्यात् । यथा – पच् पच् इत्यत्र पूर्वः पच् इत्ययमभ्यासः । ६०० । उभे अभ्यस्तम् । (६-१-५) द्विरुक्तः समुदायोऽभ्यस्तसंज्ञः । यथा- - ददति इत्यत्र दद् इति प्रकृतिरभ्यस्तम् । ६०१ । जक्षित्यादयः षट् । (६-१-६) अदादिगणे 'जक्ष भक्षहसनयोः' इत्यत आरभ्य षट् धातवो- ऽभ्यस्तसंज्ञाः स्युः । तेषु च जक्ष, जागृ, दरिद्रा, चकास्, शास्, इति पश्चैव लौकिका इति पूर्वमेवोक्तम् । वस्तुत एतेऽपि द्विरुक्ता एव । तथा हि—‘कास्' इत्ययं द्वित्वे साधारणेनाभ्यासकार्येण ‘चकास्' इति संपद्यते । ‘गृ’ इत्यस्याभ्यासदीर्घे 'जागृ' इति रूपं सुलभम् । 'द्रा' इत्यस्य 'दरिद्रा' इति रूपमाप्तुमभ्यासस्य रिगागम एवापेक्ष्यते । अभ्यासकार्यैरीदृशैर्जक्षिशास्ती अपि द्विरुक्ताविति साधयितुं शक्यते । दीधी, वेवी इत्युत्तरयोश्छान्दसयोर्द्विरुक्तिनिष्पन्नत्वं स्पष्टमेव । एवं च सप्त धातवोऽभ्यस्ता इत्यायाति । पाणिनिस्तु षडित्येवाह । संख्यावैषम्यं परिहर्तुं जक्षितिस्ततः परं षट् चेति सूत्रं व्याचक्षते पूर्वाचार्याः । जक्षी- त्यादीनां सार्वत्रिकं द्वित्वमस्तीति, अभ्यासकार्याणि च बहूनि स्युरिति, 'जजागार' 'ददरिद्रौ' इत्यादिवत् पुनद्वित्वमेते सहन्त इति च कृत्वा पाणिनिरेनान् कृतद्वित्वानेव केवलधातुत्वेन पठितवानिति मन्यामहे । अन्यथा 'गुप्तिकिङ्ग्यः सन्' 'मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य' इति स्वार्थे सन्प्रत्ययमिव गृप्रभृतीनां द्वित्वमवक्ष्यदाचार्यः । इत्यल- मतिप्रसङ्गेन | एवं द्वित्वस्य देशनियमं संज्ञाव्यवस्थां च कृत्वा तस्य न्याह- २०१ तस्य निमित्ता

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२२०&oldid=347589" इत्यस्माद् प्रतिप्राप्तम्