पृष्ठम्:Laghu paniniyam vol1.djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अदादिगण:] परिनिष्ठाकाण्ड: । अरोत् अरुदिताम् अरुदन् । अस्वपीत् अस्खपिताम् अस्वपन् । अश्वसीत् अश्वसिताम् अश्वसन् । आनीत् आनिताम् आनन् । अजीत् अजक्षिताम् अजक्षुः । इति झेर्जुस् । ‘जक्षित्यादयः षट्' इत्यभ्यस्तत्वम् । १९३ अरोदी: अरुदितम् अस्वपी: अस्वपितम् अश्वसीः अश्वसितम् आनी: आनितम् अत्र ‘सिजभ्यस्तविदिभ्यश्च' (४९८) इत्यादि । ५७७ । अड् गार्ग्यगालवयोः । (७-३-९९) रुदादिभ्यो हलादेः सार्वधातुकस्य अडागमो गार्ग्यगालवयोर्मते ॥ अरोदत् । अरोदः अस्वपत् । अस्वपः अश्वसत् । अश्वसः आनत् । आनः अजक्षत् । अजक्षः लोटि हौ परत्वादिडागमे कृते झलः परत्वाभावात् न 'हुझल्भ्यो हेधिः' । रुदिहि । स्वपिहि । श्वसिहि । अनिहि । जक्षिहि इति रूपाणि ।। ५७८ । अदः सर्वेषाम् । (७-३-१००) अत्तेरपृक्तस्य हल: सार्वधातुकस्य अडागमः सर्वेषामार्चायाणां मते । उदाहृतं च गणप्रारम्भे । आदत् आदः ॥ जक्ष, जागृ, दरिद्रा, चकास, शास् इति पञ्च धातवो लौकिके- ध्वभ्यस्ताः । तत्र जक्षितेरुक्तानि रूपाणि ॥ १५. जागृ निद्राक्षये। परस्मैपदी । जागर्ति, जागृतः, अभ्यस्तत्वात् 'झस्यात् ' जाग्रति । लङि— अजाग: अजागृतां । 'सिजभ्यस्तविदिभ्यश्च' (४९८) इति झेर्जुसि कृते- ५७९ । जुसि च (गुण:) । (७-३-८३) - इगन्ताङ्गस्य गुणः जुसि । इति गुणेन अजागरुः । अजागः अजागृतम् इत्यादि । लोटि-जागर्तु, जागृतात् जागृतां जाग्रतु । १. ञि । ष्वप् शये । श्वस प्राणने । अन च । जक्ष भक्षहसनयोः इति धातुपाठः ।

इति धातुपाठ: F

सर्वे परस्मैपदिनश्च ।

13

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२१२&oldid=347581" इत्यस्माद् प्रतिप्राप्तम्