पृष्ठम्:Laghu paniniyam vol1.djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ लघुपाणिनीये ११. तु गतिवृद्धिहिंसासु | परस्मैपदी (सौत्रः) । १२. रु शब्दे । १३. टुञ् स्तुतौ । स्तवीति स्तुवीत: स्तौति स्तुनः स्तुवीवः स्तुवः स्तवीमि स्तौमि ५७४ । तुरुस्तुशम्यमः सार्वधातुके । (७-३-९५) सार्वधातुके इत्यनुवर्तमाने पुनस्तद्ग्रहणं 'पिति' इत्यस्य नि- वृत्यर्थम् । एभ्यः परस्य हलादे: सार्वधातुकस्य ईडागमो वा । स्तुवन्ति । स्तुवीमः स्तुमः स्तवतु स्तुवीयान् 1 स्तौतु स्तुयात् "" उभयपदी । - ESTR | स्वीषि । स्तौषि [अदादिगण: ... स्तुवीथः स्तुथः ... तङयप्येवम्— स्वीते } स्तुवाते स्तुवते । स्तुते इत्यादिरूपद्वयं हलादिप्रत्ययेषूह्यम् । तुरुइत्यनयोरपि स्तुधातोरिव रूपाणि । शम्यमोस्तु आदादिकत्वाभावाच्छन्दस्येवोदाहरणम् । अस्तवीत् अस्तौत् स्तुवथि स्तुथ १४. अस भुवि । परस्मैपदी । ५७५ । अस्तिसिचोऽपृक्ते । (७-३-९६) अस्तेः सिजन्ताच्च परस्यापृक्तस्य हलादेः सार्वधातुकस्य ईडागमः । यथा – अस् – आसीत् । आसी: (लङ्) | कृ –अकार्षीत् (लुङ्) । - अस्ते: शेषाणि रूपाणि प्रकृतगणान्ते दर्शयिष्यामः । सिच उदाहरणान्तराणि च लुङि व्याख्यास्यामः ॥ ५७६ । रुदश्च पञ्चभ्यः । (७-३-९८) रुदादिभ्यो हलादेरपृक्तस्य सार्वधातुकस्य ईडागम; । रुदादि- पञ्चकं (५६४)-तमे सूत्रे परिगणितम् । पञ्चापि ते आदादिकाः । लटि रूपाणि च तेषां तत्रोक्तानि । लङि प्रस्तुतसूत्रेण तिप्सिपोरपृक्तयोरीडागमः- १. हलादौ पिति सार्वधातुके ईडागमो योज्य इत्यन्वयः । एवमन्यत्राप्यागमविधिषु सप्तम्यन्तस्यान्वयो बोध्यः । ऐकरूप्यार्थे षष्ठ्यन्तत्वं कृत्वा व्याख्यातं भविष्यति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२११&oldid=347580" इत्यस्माद् प्रतिप्राप्तम्