पृष्ठम्:Laghu paniniyam vol1.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [भूवादिगणः = प्रकृते एध + आते = एध + इते = एघेते । ‘झोऽन्तः ' ‘अतो गुणे', एधन्ते । एधसे एधेथे एधध्वे । एध + ए इत्यत्रापि ‘अतो गुणे' (३१३) इति पररूपं वृद्धेरपवादः । एधे एधावहे एधामहे || लङ्—धातोरजादित्वात् अडागमस्यापवाद आडागमः । आडागमे च— १७२ ५१० । आटश्च (अचि वृद्धिः) । (६-९-९०) आटोऽचि परे वृद्धिरेकादेशः । इति गुणापवादो वृद्धि: । प्रकृते धातोरेजादित्वेन ‘वृद्धिरेचि' इत्येव यद्यपि वृद्धिर्भवति तथापि आ + इच्छत् = ऐच्छत् इत्यादिवत् इगादिषु धातुषु वृद्धिः प्रयोजनम् । ऐधत ऐघेताम् ऐधन्त । ऐधथा: ऐधेथाम् ऐधध्वम् । ऐधे ऐधावहि ऐधामहि ॥ लोट्–एधताम् एघेताम् एधन्ताम् । एधस्व एधेथाम् एधध्वम् । एधै एधावहै एधामहै । - लिङ – ४९६ - तमसूत्रे निरूपितानां लुप्तसकारसीयुडागमयुक्ता- नां प्रत्ययानां योगे कृतशपो धातोर्यथायथं रूपाणि - एधेत एधेयाताम् एधेरन् । एधेथाः एधेयाथाम् एधेध्वम् । एधेय एधेवहि एधेमहि ।। ३. शुच शोके । उदात्तेत् । 6 अत्र हि ' सार्वधातुकार्धधातुकयो: ' (४६३) इति सूत्रेण इगन्तस्य गुण उक्त: ; इगुपधस्यापि स उच्यते उत्तरसूत्रेण - ५११ । पुगन्तलघूपधस्य च । (७-३-८६) पुगन्तस्य लघूपधस्य चाङ्गस्य इको गुण: स्यात् सार्वधातुकार्ध- धातुकयोः । 'अर्तिही...' इति पुगागमो णौ विधीयते; तत्प्रकरणे पुगन्तमुद हरिष्यामः । पूर्वसूत्रेण इगन्तख प्रकृतसूत्रेण लघूपधस्य ( अर्थाद्धस्खेगुपधस्यैव) च गुणो विधीयते ; सार्वधातुकार्धधातुकाभ्यां च

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१९१&oldid=347558" इत्यस्माद् प्रतिप्राप्तम्