पृष्ठम्:Laghu paniniyam vol1.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिनिष्ठाकाण्डः । २. एध वृद्धौ । अनुदात्तेत् । लट्–'अनुदात्तङित: ' इत्यात्मनेपदम् । 'टित आत्मनेपदानां टेरे' (४७१) इत्येत्वेन ते, आते, अन्ते इत्यादयः प्रत्ययाः, शप् विकरण- प्रत्यय: । एध् + अ + ते = एधते । एध + आते इति स्थिते— = ५०८ । सार्वधातुकमपित् (ङित्) । (१-२-४) । अपित् सार्वधातुकं ङित्स्यात् । यस्मिन् सार्वधातुके पकार इत् न दृश्यते स सर्वोऽपि ङिद्वेदितत्र्य: । ङित्त्वप्रयोजनानि गुणवृद्धिप्रतिषेध- संप्रसारणादीनि बहुविधानि । अत एव 'सेर्ह्यपिच्च' (४७९) इत्यत्र सिप आदेशत्वेन सिद्धं हेः पित्त्वं निषिद्धम् | पित्त्वाभावे च अपित्सार्वधातुक- त्वेन 'हिः' ङिद्भवति । एवमेव लोडुत्तमस्य अपित्वेन प्राप्तं ङित्त्वं निषेद्धुम्, ‘आडुत्तमस्य पिच्च' (४८३) इत्यपूर्व पित्त्वं विहितम् । इत्थं च सार्व- धातुकेषु पित्त्वङित्त्वे विरुद्धधर्मों। तथा च भाष्यवचनं–'पिच्च ङिन्न, डिच पिन्न' इति । अनेन लोटि पितस्तिप आदेशोऽपि तातङ ङित्कार्य- मेव लभते, न पित्कार्यम् । पित्त्वस्यैवमतीव कार्यकारित्वात् पित्सार्व- धातुकानां वसन्ततिलकेन संग्रह:- लिङ्- ही विनैकवचनानि पदे परार्थे लोडुत्तमो विकरणं प्रथमं च पित्स्यात् । लोडुत्तमान्य इह नास्ति पिदन्यवर्गे डिन्त्स्यान्न पित्, पिदपि नैव ङिदित्यवेहि ॥ भूवादिगणः] १७१ एवमात्मनेपदे लोडुत्तमवर्जे सर्वेऽपि लादेशा ङितः। ङित्त्वेन च 'आताम्, आथाम्' इति द्विवचनयोराद्याकारस्य इयादेशो भवति । तथा च ‘अतो येयः' (५०७) इत्यत उत्तरं सूत्रम् – ५०९ । आतो ङितः । (७-२-८१) अतः परस्य ङित्प्रत्ययसम्बन्धिन आकारस्य इयादेशः । 'लोपो व्योर्वलि' इति यलोपः । आते = इते । अनेन अकारान्तेषु विकरणेषु आताम् = इताम् ; आथाम् = इथाम् । अनयोरेव हि प्रत्यययोराकारोऽस्ति । -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१९०&oldid=347557" इत्यस्माद् प्रतिप्राप्तम्