पृष्ठम्:Laghu paniniyam vol1.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ लघुपाणिनीये ४३५ । आशिषि लिङ्लोटौ । (३-३-१७३) आशीविषयार्थवृत्तेर्धातोर्लिङलोटौ स्तः । अर्थान्तराण्यप्यनयो- लकारार्थप्रकरणे वक्ष्यन्ते ॥ ४३६ । लिङ्निमित्ते ऌङ् क्रियातिपत्तौ । (३-३-१३९) क्रियातिपत्तेरधिकस्यार्थस्य प्रतीतौ हेतुहेतुमद्भावादौ लिङर्थे वर्त- मानाद्धातोर्भविष्यति काले लङ् । कालप्रकारयोः प्राचीनैरन्वर्थानि नामानि कृतान्यासन् । तानि मात्रालाभव्यसनी पाणिनिरुपेक्ष्य 'ल' इति वर्णस्याक्षरमालामालंव्य कृत्रिमाः संज्ञाः कृतवान्; ताश्च प्रक्रिया साम्योपलम्भात् टितो ङितश्चेति द्विधा विभक्तवान् । प्राचीनसंज्ञास्त्वेता:- कालः । भवन्ती लट् । परोक्षा लिट् । = = (भूत) अनद्यतनी = लङ् । (भूत) अद्यतनी = भविष्यन्ती= ऌट् । (भावि) अनद्यतनी = लुट् । - [तिङन्त - प्रकारः । अतिसर्गिणी = लोट् | विधाका लिङ् । अतिपातिका = ऌङ् । सर्वेषामपि लकाराणां तिबादय एव प्रत्यया:; भेदप्रतीतिस्तु आ- गमैरादेशैर्विकरणप्रत्ययैश्च । अथ के नाम विकरणप्रत्ययाः ? – इह यथा सुपः प्रातिपदिकेभ्योऽञ्जसैवोत्पद्यन्ते तथा तिङो धातुभ्यो विना व्यवधानमुत्तरे न प्रवर्तन्ते; किंतु मध्ये तयोनिरर्थकाः प्रत्ययाः प्रक्षि- प्यन्ते । रूपनिष्पादनादन्यत् नास्त्येषां प्रयोजनम् । त एते प्रत्यया विकरणसंज्ञा: । विकरणम् = विकारहेतुरित्यन्वर्था संज्ञा । धातुभ्य एवं द्विगुणा: प्रत्ययाः-प्रथमं रूपनिष्पांदका विकरणसंज्ञा: ; ततः पुरुषवचन- = १. प्रकार स्योक्तास्त इमाः संज्ञा ऊहिता एव; अन्याः पुनर्यास्कादिभिर्व्यवहृताः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१७३&oldid=347540" इत्यस्माद् प्रतिप्राप्तम्