पृष्ठम्:Laghu paniniyam vol1.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् । परिनिष्ठाकाण्ड: । १५३ तदा लुङाख्यः ; अन्यदा अन्य इति । तथा च लत्वसामान्येन कर्त्रा- दीन्, लट्त्वलित्वादिविशेषैः कालप्रकारौ च बोधयन्ति लकारा इति तेषामुभयप्रकाशकत्वम् ॥ अथ लकाराणां कालप्रकारविवेकः –लोट्, लिङ्, लङ् एते प्रकारबोधकाः, अन्ये षट् कालबोधकाः । तत्र ४२७ । वर्तमाने लट् । (३-२-१२३) वर्तमानकालसंसृष्टक्रियावृत्तेर्धातोः (कर्तृकर्मभावेषु) लट् स्यात् ।। ४२८ । लुङ् (भूते) । (३-२-११०) भूतसामान्यवृत्तेर्धातोर्लुङ् स्यात् ॥ ४२९ । अनद्यतने लङ् । (३-२-१११) अनद्यतनभूतार्थवृत्तेर्धातोर्लङ् ॥ ४३० । परोक्षे लिट् । (३-२-११५) परोक्षमप्रत्यक्षं, वक्तुः साक्षात्कारायोग्यकालिकम् । परोक्षभूतार्थ- वृत्तेर्धातोर्लिट् ॥ ४३१ । अनद्यतने लुट् (भविष्यति) । (३-३-१५) अनद्यतनभविष्यदर्थवृत्तेर्धातोर्लुट् ॥ ४३२ । ऌदच्छेषे च । (३-३-१३) अद्यतनभविष्यति सामान्यभविष्यति च वर्तमानाद्धातोर्लुट् । अथ प्रकारबोधका लकाराः - ४३३ | विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्न- प्रार्थनेषु लिङ् । (३-३-१६१) ४३४ । लोट् च । (३-३-१६२) विध्याद्यर्थविषयार्थकाद्धातोर्लिङ्लोटौ स्तः । विधिचोदना, भृ- विधिवादना, भू त्यादेनिकृष्टस्य प्रवर्तनम्; अन्येऽपि चोदनाभेदा एव |

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१७२&oldid=347539" इत्यस्माद् प्रतिप्राप्तम्