पृष्ठम्:Laghu paniniyam vol1.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नामरूपावलिः] परिनिष्ठाकाण्ड: । १४३ , 6 सम्बुद्धौ ‘स्वमोर्नपुंसकात्' इति, सोर्लुका लुप्तत्वेन प्रत्ययलक्ष- णाभावात् 'ह्रस्व गुणः न प्राप्नोति । तथापि तस्य गुणस्य विकल्प इष्यते । स चैवं सिध्यति–'ह्रस्व गुण: सम्बुद्धौ' इत्यनुवृत्ति- संस्कृते सूत्रे 'सम्बुद्धौ' इति सप्तमी परसप्तमीति पक्षे सम्बुद्धौ परतो विहितत्वादङ्गकार्ये गुणो 'न लुमताङ्गस्य' इति प्रत्ययलक्षणनिषेधाज्ञ प्रवर्तते । ‘सम्बुद्धौ’ इति विषयार्थे सप्तमीति चेत् व्याख्यायते, तर्हि अङ्गकार्यत्वाभावात् स्यादेव प्रत्ययलक्षणेन गुणः । उभयोः पक्षयोः प्रा- माण्याद्विकल्पः फलति । अन्ये त्वभीष्टमिदमन्यथा साधयन्ति । यथा-- "इकोऽचि विभक्तौ' इति सूत्रे 'अचि' - ग्रहणमंत्र ज्ञापकम् । तथा हि — सूत्रे तस्मिन् ‘अचि' इति किमर्थमुक्तम् ? हलि मा भूदिति । हल्यपि कामं प्रवर्ततां, को दोषः–'वारिन् भ्यां,' 'वारिन् भिः ' इत्याद्यनिष्टं रूपमापतेत् । नैष दोषः - ‘नलोपः प्रातिपदिकान्तस्य' इति 'राजभ्यां' इत्यादिष्विव नलोपो भविष्यति । भवतु, तथापि सम्वुद्धौ दोष: स्यात्, ‘न. डिसम्बुद्ध्योः' इति तत्र नलोपस्य निषे- धात् । नायमपि दोष:, सम्बुद्धेर्लुका लुप्तत्वेन प्रत्ययलक्षणनिषेध न सम्बुद्धिः परास्ति । एवम् 'अचि ' - ग्रहणं व्यर्थे सत् ज्ञापयति प्रत्यय- लक्षणनिषेधोऽनित्य इति । प्रत्ययलक्षणनिषेधः सम्बुद्धौ कदाचिन्न प्रव- तेति भीत्यैव किलाचार्य: 'अचि' इत्युक्तवान् । इति । व्याख्यातृ- वक्रतादृष्टान्ततया प्रपञ्चोऽयमतास्माभिरादृतः ॥ - 6 तथा च सम्बुद्धौ वारे, वारि; लपो, त्रपु; कर्तः, कर्तृ इति सर्वत्र गुणविकल्प इष्यते । वारिणे, वारिणः इत्यादौ ‘घेङिति' इति इकोऽचि व्यञ्जने माभूदस्तु लोपः स्वरः कथम् । स्वरो वै श्रूयमाणोऽपि लुप्ते किन्न भविष्यति ॥ रायात्वं तिसृभावश्च व्यवधानान्नुमा अपि । नुडूवाच्य उत्तरार्थ तु इह किञ्चित् त्रषो इति ॥ 9.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१६२&oldid=347529" इत्यस्माद् प्रतिप्राप्तम्