पृष्ठम्:Laghu paniniyam vol1.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [षत्व इयङुवङौ यण् च नपुंसके न भवति, परेण 'नपुंसकय झल- चः’ (७-१-७२) ‘इकोऽचि विभक्तौ' (७-१-७३) इति नुमा बाधात् । तेन क्लीबे- १३० सुधी – सुधि सुधिनी सुधीनि; सुधिना सुधिने... स्वभू–स्वभु स्वभुनी स्वभूनि; स्वभुना स्वभुने... ग्रामणी – ग्रामणि ग्रामणिनी ग्रामणीनि; ग्रामणिना... इत्यादीन्येव रूपाणि । तृतीयादौ गालवमतेन पुंवद्भावविकल्पस्तु स्यादेव। तेन — सुधिया, सुधिये इत्याद्यपि ॥ ३६८ । ओः सुपि । (६-४-८३) असंयोगपूर्वो य उवर्णस्तदन्तो यो धातुस्तदन्त खानेका चोऽङ्गस्य यण् स्याद्जादौ सुपि प्रत्यये परे । उवङोऽपवादः ॥ = खलं पुनातीति खलपूः, खलप्वौ, खलप्वः । प्रसूः, प्रस्खौ, प्रखः । प्रत्यु० – ('अनेकाचः' किम् ?) पूः, पुवौ, पुत्रः । सूः, सुवौ, सुवः । (‘ असंयोगपूर्वस्य’ किम् ?)कटप्रूः, कटप्रुवौ, कटप्रुवः । ('सुपि प्रत्यये' किम् ?) लुलु + अतुः = लुलुत्रतुः– लिट् । ३६९ । वर्षाभ्वश्च । (६-४-८४) (पुनर्ध्वश्चेति वक्तव्यम्) । उत्तरसूत्रेण निषेधं बाधितुं यण् विधीयते । यथा- वर्षाभ्वौ, बर्षाभ्वः; पुनर्वौ, पुनर्ध्वः । ३७० । न भूसुधियोः । (६-४-८५) भूधातोः सुधीशब्दस्य च यण् न स्यात् । यथा- स्वभूः, स्वभुवौ, स्वभुवः इत्यादि । | सुधीः, सुधियौ, सुधियः इत्यादि। उक्ता सुपां प्रक्रिया । अथ षत्वणत्वयोर्विधिरारभ्यते, योऽयं सुपीव तिङ्कृत्तद्धितसमासेष्वपि तत्र तत्रोपयुक्तः । तयोः प्रथमम् षत्वप्रकरणम् । ३७१ । अपदान्तस्य मूर्धन्यः । (८-३-५५)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१४९&oldid=347516" इत्यस्माद् प्रतिप्राप्तम्