पृष्ठम्:Laghu paniniyam vol1.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ लघुपाणिनीये ३६३ । द्वितीयाटौस्स्वनः । (२-४-३४) द्वितीयायां टौसोश्च परत इदमेतदोरन्वादेशविषये एन इत्यादेशः स्यात् । स्त्रियामदन्तत्वाट्टाप् | क्लीबे तु— ॥ * ॥ एनदिति नपुंसकैकवचनं वक्तव्यम् ॥ इति वार्त्तिकेन एनत् । अमो डतरादिवत् अदादेशोऽपि भवतीत्यर्थः । पुंसि एनम् एनौ स्त्रियाम् – एनाम् एने कीबे -एनत् - एने एनान् एनन एनयोः एनयोः एनाः एनानि एनया एनेन [सुबन्त "" ......... " अन्वादेशप्रदर्शनार्थमुदाहरणम् - देवदत्तः पटुः; अनंन व्याकरणधीतम्; एनं न्यायमध्यापय | देवदत्तयज्ञदत्तौ भ्रातरौ ; एतयोर्महितं कुलम् ; एनावध्यापय । अथ ईदूदन्तानां धातूनां क्विवन्तत्वे धातुत्वस्य क्षतिं विनैव प्राति- पदिकत्वमापन्नानां रूपसिद्धिरवशिष्यत इति सा प्रारभ्यते – ३६४ । अचि अनुधातुभ्रुवां य्वोरियडुवङौ । (६-४-७७) य्वोः=इवर्ण-उवर्णयोः । इदं च धातोर्विशेषणम्, इतरयोरव्यभि- चारात् । शन्नु॒प्रत्ययान्तस्य इवर्णोवर्णान्तधातोभ्रूशब्दस्य च इयङ्, उवङ् इत्यादेश स्तः अजादौ प्रत्यये परे। आन्तरतम्यादिवर्णस्य इयङ्, उवर्ण- स्य उवङ् इति विवेकः । ङित्त्वादनेकाल्त्वेऽप्यन्त्यादेशः । यथा- । , - सुधीः, सुधियौ सुधियः । हे सुधीः । 'अमिपूर्वात्' पूर्वसवर्णदीर्घाच्च परत्वादियङ्, सुधियं सुधियः । सुधिया सुधीभ्यां सुधियां । सुधीषु । U स्वभूः स्वभुवौ स्वभुवः । स्वभुवं स्वभुवः इत्यादि सुधीवत् । स्त्रियां नदीकार्यं विशेषः । ङयन्तत्वाभावान्न सुलोपः । सम्बुद्धौ ‘नेयडुवस्थाना- वस्त्री' (१८४) इति नदीत्वनिषेधान्न ह्रस्वः, ङित्सु 'ङिति हस्वच' (१८६) इति, आमि 'वामि' (१८५) इति च विकल्पेन नदीकार्याणि । ८ १. सुष्टु ध्यायतीति सुध्यै + किप् = सुधी ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१४७&oldid=347514" इत्यस्माद् प्रतिप्राप्तम्