पृष्ठम्:Laghu paniniyam vol1.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] युवाम् आवाम् प्रथमाद्विवचनवत् । युष्मद् + अस्, अस्मद् + अस्-‘शसो न' युष्मद् + अन्, अस्मद् + अन्, 'द्वितीयायां च' इत्यावं - युष्मा + अन, अस्मा + अन् - युष्मान्, अस्मान् । युष्मद् + आ, अस्मद् + आ 'त्वमावेकवचने', 'योऽचि' – त्वया, मया । युष्मद् + भ्याम्, अस्मद् + भ्यां – 'युवावौ द्विवचने', 'युष्मदस्मदोरनादेशे इत्यात्वं — युवाभ्याम् आवाभ्याम् । - युष्मद् + भिस्, अस्मद् + भिस् – - भिः, अस्माभिः । , परिनिष्ठाकाण्ड: । 'युष्मदस्मदोरनादेशे' इत्यात्वं-युष्मा- युष्मद् + ए, अस्मद् + ए–'डेरम्', 'तुभ्यमह्यौ ङयि', 'शेषे लोपः '- तुभ्यं, मह्यम् । युवाभ्याम् , आवाभ्यां-तृतीयाद्विवचनवत् । युष्मद् + भ्यस्, अस्मद् + भ्यस्–‘भ्यसो भ्यम्, ‘शेषे लोपः' युष्मभ्यम्, अस्मभ्यम् । १२५ युष्मद् + अस्, अस्मद् + अस्– 'एकवचनस्य च ' इति डसेरत्, ‘त्वमावेक- वचने’, ‘शेषे लोपः’, ‘अतो गुणे' त्वत्, मत् । युवाभ्याम्, आवाभ्यां - - पूर्ववत् । 1- युष्मद् + भ्यस्, अस्मद् + भ्यस्– 'पञ्चम्या अत्’, ‘शेषे लोपः’, ‘अतो गुणे' - युष्मत्, अस्मत् । - युष्मद् + अस्, अस्मद् + अस्– 'युष्मदस्मद्भ्यां ङसोऽश्’, ‘तवममौ ङसि’, ‘शेषे लोपः', 'अतो गुणे' – तव, मम | युष्मद् + ओस्, अस्मद् + ओस्–‘युवावौ द्विवचने'’, ‘योऽचि’ इति यत्वं, युवयोः, आवयोः । युष्मद् + आम्, अस्मद् + आं– 'साम आकम्', ‘शेषे लोपः' युष्माकम्, = अस्माकम् । युष्मद् + इ, अस्मद् + इ–‘त्वमावेकवचने', 'योऽचि' त्वयि, मयि । युवयोः, आवयोः– पूर्ववत् । युष्मद् + सु, अस्मद् + सु – ‘युष्मदस्मदोरनादेशे' इति आत्वं-युष्मासु, अस्मासु । -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१४४&oldid=347511" इत्यस्माद् प्रतिप्राप्तम्