पृष्ठम्:Laghu paniniyam vol1.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ लघुपाणिनीये [सुबन्त ३४६ | युवावौ द्विवचने । (७-२-९२) द्विवचने युष्म् इत्यंशस्य 'युव' इति, अस्म् इत्यंशस्य 'आव ' इति चादेशः स्यात् । .३४७ | यूयवयौ जसि । (७-२-९३) युष्मदस्मदोर्मपर्यन्तस्य जसि 'यूय' 'वय' इत्यादेशौ स्तः । ३४८ । त्वाहौ सौ । (७-२-९४) ३४९ । तुभ्यमह्यौ ङयि । (७-२-९५) ३५० | तवममौ ङसि । (७-२-९६) युष्मदस्मदोर्मपर्यन्तस्य उक्तेषु प्रत्ययेषु उक्ता आदेशाः स्युः । ३५१ । त्वमावेकवचने । (७-२-९७) अनयोरेकवचने ‘त्व’, ‘म' इत्यादेशौ । 6 ३५२ । प्रत्ययोत्तरपदयोश्च । (७-२-९८) तद्धितादिषु प्रत्ययेषु (समासे) उत्तरपदे च परत एकत्ववाचिनोर्युष्मदस्मदोः मपर्यन्तस्य त्व, म इत्यादेशौ । यथा- - ईय इति तद्धितप्रत्ययः। युष्मद् + ईय, अस्मद् + ईय इति स्थिते मपर्यन्तस्य त्वमादेशाभ्यां (त्व + अद् = त्वद्), (म + अ = मद्) त्वदीयं, मदीयम् । तवेदं ममेदम् इत्यर्थः। द्विबहुवचनयोस्तु त्वमादेशाभावात् ‘युवयोर्युष्माकं वा इदम्’, युष्मदी- यम् ‘आवयोरस्माकं वा इदम्' अस्मदीयम् । एवमुत्तरपदेऽपि तव पुत्रः त्वत्पुत्रः, मम पुत्रः मत्पुत्रः अथ रूपाणि निष्पाद्यन्ते- 'शेषे लोप:' युष्मद् + स्; अस्म र् ± स्–‘ङे प्रथमयोरम्' – युष्मद् + अम्, अस्मद् + अम् ; मपर्यन्तस्य 'त्वाहौ सौ'- '–त्व + अद् + अम्, अह + अद् + अम्, त्व + अ + अम्, अह् + अ + अम्, –'अतो गुणे' (३१३) ‘अमि पूर्वः' (१९९) त्वम् , अहम् । युष्मद् + औ, अस्मद् + औ— युष्मद् + अम्, अस्मद् + अम्-‘ युवावौ द्विव- चने’ युवद् + अम्, आवद् + अम्, –'प्रथमायाश्च द्विवचने भाषायाम्' इति आत्वम्, युव + आ + अम् ; आव + आ + अम् सवर्णदीर्घपूर्वरूपे युवाम्, आवाम् । युष्मद् + अस्, अस्मद् + अस्-‘यूयवयौ जसि’, शेषे लोपः– यूयम्, वयम् । युष्मद् + अम्, अस्मद् + अम्–'त्वमावेकवचने,' 'द्वितीयायां च' इति आत्वम् ।

त्वाम्, माम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१४३&oldid=347510" इत्यस्माद् प्रतिप्राप्तम्