पृष्ठम्:Laghu paniniyam vol1.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] परिनिष्ठाकाण्डः । ३२३ । इदोऽय् पुंसि । (७-२-१११) इत्यस्य 'अय्' इत्यादेशः सौ ॥ पुल्लिङ्गे तु 'इद्' इदम् + स्— अयम् + स् = अयम् । स्त्रियाम् – इदम् + स्– इयम् + स् = इयम् । क्लीबे–इदम् । स्वमोरभावान्न कोऽपि विकारः । पुंसि । स्त्रियाम् । न भवति ॥ अनेन अस्मै अस्मात् अस्य अस्मिन् इदम् = इमम् । = दौ : इमौ । इदान् = इमान् । इदाः ३२४ । अनाप्यकः । (७-२-११२) आप् इति तृतीयैकवचनात् प्रभृति सुपः पकारेण प्रत्याहारः । आपि परे इदम इदः स्थाने अन् इत्यादेशः ॥ = इदाम् = इमाम् । • इमे । आभ्याम् एभिः एभ्यः एभ्यः एषाम् >> अनयोः = इमाः । ३२५ । हलि लोपः । (७-२-११३) हलादौ विभक्तौ तु इदम इदो लोप: स्यात् । 'नानर्थकेऽलो- ऽन्त्यविधिरनभ्यासविकारे' इति परिभाषया समग्रस्य इदो लोपः । डे-ङसि-ङस्-ङीनां स्मायाद्यादेशैः, आमः सुडागमेन च हलादित्वादिद् इत्यंशस्य लोपे अकार एव शिष्यते । अदन्तत्वात् 'सुपि च' इति दीर्घो 'बहुवचने झल्येत्' च भवतः । 'नेदमदसोः...' इति ऐसादेशो = अनया अस्यै अस्याः अस्याः अस्याम् आभ्यां ११९ अनयोः " आभिः आभ्यः " आसाम् आसु । कथम् अकारस्यैव अदन्तत्वम् ? येन स्मायाद्यादेशाः, स्त्रियां टाप् च प्रवर्तन्ते इति चेत्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१३८&oldid=347505" इत्यस्माद् प्रतिप्राप्तम्