पृष्ठम्:Laghu paniniyam vol1.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ लघुपाणिनीये [सुबन्त पुनस्तद्वत् ; शेषं पुंवत् । 'अमुष्मै' इत्यादौ षत्वं प्रति मुत्वस्य सिद्ध- त्वात् इण: परस्य आदेशावयवस्य सस्य षत्वम् । ३७५ - सूत्रं दृश्यताम् ॥ ‘अव्ययसर्वनाम्नामकच्प्राक्टे:' इति सूत्रेण सर्वनाम्नाम् अज्ञा- ताद्यर्थे अकप्रत्ययो विधीयते, स च टे: प्राग्भवति । प्रत्ययस्य गर्भगत- त्वाच्छब्दभेदो नास्ति । तकद्, यकद्, एतकद्, इदकम्, अदकस् इत्येवमादिरूपतामापन्नेभ्यः सकः, तकौ, तके इत्यादि रूपाणि । तत्र अदश्शब्दस्यैव साकच्कस्य बहुल: प्रयोगः । तस्य च किञ्चिदिवार्थ - विशेषोऽप्यस्ति । अभुकस्मिन् वर्षे अमुकस्मिन् मासि अमुकस्मिन् दिने लिखितम् इत्यादिवत् नामग्रहणं विना सामान्यनिर्देशार्थमस्योपयोगः । अस्य च सौ रूपविशेषमाह कात्यायन:- - ॥ ॐ ॥ औत्वप्रतिषेधः साकच्काद्वा वक्तव्यः सादुत्वं च ॥ अदसः सौ औत्वं वा; औत्वाभावपक्षे सात् परस्य स्वरंस्य उत्वं च इत्यर्थः । तेन असकौ, असुकः इति रूपद्वयम् । असकौ–असुकः । अमुकौ-अमुके । अमुकम्-अमुकौ– अमुकान् । अमुकेन– अमुकाभ्याम्–अमुकैः इत्यादि । '... .अकोः' (२०५) इति ऐस्त्वनिषेधस्य निषेधात् ऐस्त्वम् । ३२० । इदमो मः । (७-२-१०८) इदमो मकारोऽन्तादेश: स्यात् सौ परे । त्यदाद्यत्वं मा भूदिति मकारस्य मकारो विधीयते ।। ३२१ । दश्च । (७-२-१०९) इदमो दकारस्य मकारादेश: स्याद्विभक्तौ ॥ ३२२ । यः सौ । (७-२-११०) सौ तु इदमो दकारस्य यकार: । सत्वमत्वयोरपवादः ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१३७&oldid=347504" इत्यस्माद् प्रतिप्राप्तम्