पृष्ठम्:Laghu paniniyam vol1.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिनिष्ठाकाण्ड: । २८८ । विभाषा तृतीयादिष्वचि । (७-१-९७) अजादिषु तृतीयादिविभक्तिषु क्रोष्टुशब्दो वा तृजन्तवत् स्यात् । तेन कोष्टा, क्रो, क्रोष्टुः, क्रोष्ट्रोः, क्रोष्टरि इति कर्तृशब्दवद्रपाणि । तृज्वद्भावाभावे हलादिविभक्तिषु च गुरुशब्दवत् क्रोष्टुना, क्रोष्टुभ्यां, क्रोष्टुभिः, क्रोष्टवे इत्यादि- रूपाणि च । आमि प्रथममेव नुडागमकरणेन अजादित्वाभावात् क्रोधूनाम् इत्येव । प्रकरणम् ] २८९ । चतुरनड्डुहोरामुदात्तः । (७-१-८) चतुर्, अनडुह अनयोः सर्वनामस्थाने आमागमः । स चोदात्त इति स्वर- विधिः । मित्त्वादन्त्यादचः पर आगमः । यथा - - चतुआर् + अस् = चत्वारः । चतुरः । चतुर्भिः । चतुर्भ्यः । 'षट्चतुर्भ्यश्च' (२४७) इांत नुट्, चतुर्णाम् । चतुर्षु । अनडुह् + स — आम्, अनड्डाह् + सू ‘साबनडुहः’ (२७३) इति नुम्, अनड्वान् ह् + स् – सुलोपसंयोगान्तलोपौ, अनङ्कान् । अनङ्काहौ–अनङ्काहः । सम्बुद्धौ तु – २९० | अम् सम्बुद्धौ । (७-१-९९) सम्बुद्धौ अनडुह् इत्यस्य अम् इति ह्रस्व आगमः । हे अनवन् । अनड्वाहम्–अनड्डाहौ-अनडुहः । अनडुद्दा | पदसंज्ञायां ‘वसुस्रंसु- ध्वंस्वनडुहां दः' (७३) इति दत्वम्, अनडुद्भ्याम्, अनडुद्भिः ।...... .. अनडुत्सु । अथ प्रकरणान्तरोक्तान्यङ्गकार्याणि ॥ २९१ | अर्वणस्त्रसावनञः । (६-४-१२७) 'अर्वन्' इत्यङ्गस्य 'तृ' इत्यादेशः स्यात् न तु सौ परे, नापि नञः परस्य । ऋकार इत् 'उगिदचां...' (२६२) इति नुमर्थः । यथा - अर्वा अर्वन्तौ अर्वन्तः । हे अर्वन् । अर्वन्तम् अर्वन्तौ अर्वतः । अर्वता अर्वद्भ्याम्.....अर्वत्सु । अर्वत्यः । प्रत्यु० – ('अनञः' किम् ?) अनर्वा अनर्वाणौ.. स्त्रियाम् उगित्वात् ङीप्– अर्वती अर्वत्यौ १०९ .यज्ववत् । ('अङ्गस्य' किम् ? ) अर्वरथः- 'नलोपः प्रातिपदिकान्तस्य' ...... कान्तस्य' (२५२)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१२८&oldid=347495" इत्यस्माद् प्रतिप्राप्तम्