पृष्ठम्:Laghu paniniyam vol1.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [सुबन्त २८५ । ऋदुशनस्पुरुदंसोऽनेहसां च । (७-१-९४) ऋकारान्तानाम् उशनस्, पुरुदंसस्, अनेहस्— इति शब्दानां च अनङादेश: असम्बुद्धौ सौ परे । यथा- कर्तृ—कर्ता सखा इतिवत् । ‘ऋतो ङि...’ (२३४) इति गुणः, 'अप्तृन्...' (२६०) इति दीर्घश्च, कर्तारौ-कर्तारः । हे कर्तः । कर्तारम् - कर्तारौ-कर्तृन्; कर्त्रा- कर्तृभ्याम् – कर्तृभिः। कर्त्रे । ऋत उत्’ (२०१), कर्तुः । क:- कर्तॄणाम् । गुणः, कर्तरि । कर्तृषु । पितृमात्रादीनामव्युत्पन्नशब्दानां तु 'अप्तृन्' इति दीर्घाभावात् पिता- पितरौ - पितरः इत्यादि । C १०८ - उशनस्—उशना । पुरुदंसस्– पुरुदंसा । प्रत्यु० – (सम्बुद्धौ तु) हे उशनः, पुरुदंसः, अनेहः । अनेहस्— अनेहा । ॥ * ॥ उशनसः सम्बुद्धावनङ् नलोपश्च वा वाच्यः ॥ यथा—अनङि हे उशनन्; नलोपे हे उशन । एवं च उशनस्शब्दस्य रूपाणि —उशना - उशनसौ–उशनसः; हे उशनन्, उशनः, उशन | उशनसम्-उशनसौ- उशनसः ; उशनसा–पदान्तत्वात् रुत्वम्, उत्वं च, उशनोभ्याम्, उशनोभिः । उशनसे, उशनसः । उशनसोः । उशनसाम् । उशनसि । उशनस्सु | - २८६ | तृज्वत् क्रोष्टुः । (७-१-९५) क्रोष्टुशब्दस्सृजन्तवत् स्यात् असम्बुद्धौ सर्वनामस्थाने परे । क्रोष्टुशब्दस्थाने क्रोष्टृशब्दः प्रयोक्तव्य इत्यर्थः । तृज्वद्भावात् कर्तृशब्दवद्रूपाणि- क्रोष्टा-क्रोष्टारौ-क्रोष्टारः । सम्बुद्धौ तदभावात् गुरुशब्दवत् – हे क्रोष्टो । क्रोष्टा- रम्-क्रोष्टारौ; शसि क्रोषून् । । २८७ । स्त्रियां च । (७-१-९६) क्रोष्टुशब्दस्तृजन्तवत् स्यात् । तेन 'ऋन्नेभ्य...' (१४०) इति ङीप्— क्रोष्ट्री—क्रोष्ट्यौ–क्रोष्ट्रयः । हे क्रोष्ट्रि । क्रोष्ट्या-क्रोष्ट्रीभ्याम्-क्रोष्ट्रीभिः । कोष्ट्री-कोट्यौ-क्रोष्ट्रीः । कोष्टयै | क्रोष्ट्रयाः । क्रोष्ट्रीणाम्; कोष्टयाम् | इति गौरीशब्दवन्नदीरूपाणि । सुखार्थ नदीकार्याणि संगृह्यन्ते— सम्बुद्धौ ह्वस्वता, डेराम्,-आढ्योगो ङसि - ङे ङसामु GDF आमि नुट् चेति चत्वारि नदीकार्याणि सुप्स्विह ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१२७&oldid=347494" इत्यस्माद् प्रतिप्राप्तम्