पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रैराशिकव्यवहारः गोधूमानां मानीर्नव नयता योजनत्रयं लब्धाः । षष्टिः पणाः सवाहं कुम्भं दशयोजनानि कति ॥ ३६ ॥ भाण्डप्रतिभाण्डस्योद्देशकः । _ कस्तूरीकर्षत्रयमुपलभते दशभिरष्टभिः कनकैः’। कर्षद्वयकर्पूरं मृगना भित्रिशतकर्षकैः कति ना ॥ ३७ ॥ पनसानि षष्टिमष्टभिरुपलभतेऽशीतिमातुलुङ्गानि । दशभिर्माषैर्नवशतपनसैः कति मातुलुङ्गानि ॥ ३८ ॥ जीवक्रय विक्रययोरुद्देशकः । षोडशवर्षास्तुरगा विंशतिरर्हन्ति नियुतकनकानि । दशवर्षसप्तिसप्ततिरिह कति गणकाग्रणीः कथय ।। ३९ ॥ स्वर्णत्रिशती मूल्यं दशवर्षाणां नवाङ्गनानां स्यात् । षट्त्रिंशन्नारीणां षोडशसंवत्सराणां किम् ॥ ४० ॥ षट्कशत युक्तनवतेर्दशमासैर्वृद्धिरत्र का तस्याः । कः कालः किं वित्तं विदिताभ्यां भण गणकमुखमुकुर ॥ ४१॥ सप्तराशिक उद्देशकः । त्रिचतुर्व्यासायामौ श्रीखण्डावर्हतोऽष्टहेमानि । षण्णवविस्तृतिदैर्ध्या हस्तेन चतुर्दशात्र कति ॥ ४२ ॥ इति सप्तराशिकः || + B adds ना at the end 65 • K, M and B read हेमकर्षा: for ना.