पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकीर्णकव्यवहारः अत्रोद्देशकः । सिकतायामष्टांशस्तन्दृष्टोऽष्टादशांशसङ्गुणितः । स्तम्भस्वार्धं दृष्टं स्तम्भायामः कियान् कथय ॥ ७० ॥ द्विभक्तनवमांशकप्रहतसप्तविंशांशकः प्रमोदभवतिष्ठते करिकुलस्य पृथ्वीतले । विनीलजलदाकृतिर्विहरति त्रिभागो नगे वद त्वमधुना सरखे करिकुलप्रमाणं मम ॥ ७१ ॥ साधूत्कृतोर्नवसति षोडशांशक- स्त्रिभाजितः स्वकगुणितो वनान्तरे । पादो गिरौ मम कथयाशु तन्मिति प्रोत्तीर्णवान् जलधिसमं प्रकीर्णकम् ॥ 57 इति भिन्नदृश्यजातिः ॥ इति सारसङ्ग्रहे गणितशास्त्रे महावीराचार्यस्य कृतौ प्रकीर्णको नाम तृतीयव्यवहारः समाप्तः ॥ B, M and K read गगने.