पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृ ती यः प्रकीर्णकव्यवहारः प्रणुतानन्तगुणौघं प्रणिपत्य जिनेश्वरं महावीरम् । प्रणतजगत्रयवरदं प्रकीर्णक गणितमंचास्ये ॥ १ ॥ ' विध्वस्तदुर्नयध्वान्तः सिद्धः स्याद्वादशासनः । विद्यानन्दो जिनो जीयाद्वादीन्द्रो मुनिपुङ्गवः ॥ इतः परं प्रकीर्णकं तृतीयव्यवहारमुदाहरिप्यामः- भागश्शेषां मूलकं शेषमूलं स्यातां जाती द्वे द्विरत्रांशपूले । भागाभ्यासोऽनांऽशवर्गोऽथ मूल- मिश्रं नस्मानिन्नदृश्यं दशामूः ॥ ३ ॥ तत्र भागजातिशेषजात्योस्सूत्रम्- भागोनरूपभक्तं दृश्यं फलमत्र भागजाद्विविधौ | अंशोनितरूपाहतिहृतमत्रं शेषजातिविधौ || ४ || भागजातावुद्देशकः । दृष्टोऽष्टमं पृथिव्यां स्वस्मस्य त्र्यंशको मया तोये । पादांश: शैवाले कः स्तम्भः सप्त हस्ताः वं ॥ ५ ॥ षड्यागः पाटलीषु भ्रमरवरस्तत्रिभागः कदम्बे पादश्रूतद्रुमेषु प्रदलितकुसुमे चम्पके पञ्चमांशः । प्रोत्फुल्लाम्भोजषण्डे रविकरदलिते त्रिशद शो- मिरेम तत्रैको मत्तभृङ्गो भ्रमति नभसि का तस्य बृन्दस्य सङ्ख्या ॥ 4 Band Moumit this stanz 47