पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कलासवर्णव्यवहारः. एकांशकानामेकांशेऽनेकांशे च फले छेदोत्पत्तौ सूत्रम् सेप्टो हारो भक्तः स्वांशेन निरग्रमादिमांशहरः । तद्युतिहाराप्तेष्टः शेषोऽस्मादित्थमितरेषाम् ।। ८० || अत्रोद्देशकः । त्रयाणां रूपकांशानां राशीनां के हरा ब्रद । फलं चतुर्थभागस्स्याच्चतुर्णां च त्रिसप्तमम् || १ || ऐकांशानामनेकांशानां चानेकांशे फले छेदोत्पत्तौ सूत्रम् - इष्टहता दृष्टांशाः फलांशसदृशो यथा हि तद्योगः । निजगुणहृतफलहारस्तद्धारां भवति निर्दिष्टः ॥ ८२ ।। अत्रोद्देशकः । 'एककांशेन राशीनां त्रयाणां के हरा वद । द्वादशाप्ता त्रयोविंशत्यशंका च युतिर्भवेत् || ३ || त्रिसप्तकनवांशानां त्रयाणां के हरा वद | ड्यूनपञ्चाशदाप्ता त्रिसप्तत्यंशा चुनिर्भवेत् || ८४ || एकांशकयो राश्योरेकांशे फले छेदोत्पत्तौ सूत्रन- वाञ्छाहतयुतिहारश्छेदः स व्येकवाञ्छ्याप्तोऽन्यः । फलहारहारलब्धं स्वयोगगुणिते हरौ वा स्तः ॥ ८५ !! अत्रोद्देशकः । राश्योरेकांशयोश्छेदौ कौ भवतां तयोर्युतिः । षडंशो दशभागो वा ब्रूहि त्वं गणितार्थवित् ॥ ८६ ।। Stanzas 83 and 84 are onuutted in B. 37