पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्वितीयः कलासवर्णव्यवहारः । 'त्रिलोकराजेन्द्रकिरीटकोटिप्रभाभिरालीढपदारावन्दम् । निर्मूलमुन्मूलितकर्मवृक्षं जिनेन्द्रचन्द्रं प्रणमामि भक्त्या ॥ 11 इतः परं कलासवर्णं द्वितीयव्यवहारमुदाहरिष्यामः ॥ भिन्न प्रत्युत्पन्नः तत्र भिन्न प्रत्युत्पन्न करणसूत्रं यथा गुणयेदंशानंशैर्हारान् हारैर्घटेत यदि तेषाम् । वज्ञापवर्तनविधिविधाय तं भिन्नगुणकारे ॥ २ ॥ अत्रोद्देशकः । - शुण्ठ्याः पलेन लभते चतुर्नवांशं पणस्य यः पुरुषः । किमसौ ब्रूहि सखे त्वं त्रिगुणेन पलाष्टभागेन ॥ ३ ॥ मरिचस्य पलस्यार्घः पणस्य सप्ताष्टमांशको यत्र । तत्र भवेत्किं मूल्यं पलषट्पञ्चांशकस्य वद ॥ ४ ॥ कश्चित्पणेन लभते त्रिपञ्चभागं पलस्य पिप्पल्याः । नवभिः पणैर्दिभक्तैः किं गणकाचक्ष्व गुणयित्वा ॥ ५ ॥ क्रीणाति पणेन वणिग्जीरकपलनवदशांशकं यत्र । तत्र पणैः पञ्चाः कथय त्वं किं समग्रमते ॥ ६ ॥ यादयो द्वितयवृद्धयोंऽशका- स्त्र्यादयो द्वयचया हराः पुनः । ते इये दशपदाः कियत्फलं ब्रूहि तत्र गुणने योयोः ॥ ७ ॥ इति भिन्नगुणकारः । This stanza is omitted in P 25

  • M मौ