पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6 गणितसारसङ्ग्रहः पलैर्द्वादशभिस्मार्वैः प्रस्थः पलशनद्वयम् । तुला दश तुला भार : ख्याः प्रचक्षते ॥ ४४ ॥ वस्त्राभरणवेत्राणां युगकान्यत्र विशतिः । कोटि कानपर भागे परिकर्माणि नामत: ॥ ४५ ॥ अथ परिकर्मनामानि । आदिमं गुणकारोऽत्र प्रत्युत्पन्नोऽपि तद्भवेत् । द्वितीय भागहाराख्यं तृतीयं कृरुिच्यते ॥ १६ ॥ चतुर्थं वर्गमूलं हि भाप्यते पमं घनः । वनमूलं ततष्षष्ठं सप्तमं च चितिस्स्मृतम् || १७ || नत्सङ्कलिनमप्युक्तं व्युत्कलितमतोऽष्टमम् । तच्च शेषमिति प्रोक्तं भिन्नान्यष्टावमून्यपि ॥ ४८ ।। अथ धनर्णशून्य विषयक सामान्यनियमाः । ताडिन: वेन राशि: खं सोऽविकारी हृतो युनतः । हीनोऽपि ववभादिः वं योगे रवं योज्यरूपकम् ॥ ४९ ॥ ऋणयोर्धनयोधते भजने च फलं धनम् । ऋणं धनर्णयोस्तु स्यात्स्वर्णयोर्विवरं युतौ ॥ ५० ॥ ऋणयोर्धनयोर्योगो यथासङ्ख्यमृणं धनम् । शोध्यं धनमृणं राशेः ऋणं शोध्यं धनं भवेत् ॥ ५१ ॥ धनं धनर्णयोर्वर्गो मूले स्वर्णे तयोः क्रमात् । ऋणं स्वरूपतोऽवर्गो यतस्तस्मान्न तत्पदम् ॥ ५२ ॥ अथ सङ्ख्यासंज्ञाः । 'शशी सोमश्च चन्द्रेन्द्र प्रालेयांश रजनीकरः । श्वेतं हिमगु रूपञ्च मृगाङ्कश्च कलाधरः | ९३ ॥ 3 M रं. ● M डि. M विद्यात्कलासवर्णस्य. ★ Stanzas 53 to 68 occur only in M, and are given here, though erroneous here and there, as fcund in the original.

  • Used here in the 4th conjugation, active voice,