पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणितसारसङ्ग्रहः तत्पञ्चकशतं प्रोक्तं प्रमाणं मानवेदिभिः । वर्तमाननराणामङ्गुलमात्माङ्गुलं भवेत् ॥ २८ ॥ व्यवहार प्रमाण द्वे' राद्धान्ते लौकिके विदुः । आत्माङ्गुलमिति त्रेधा तिर्यक्पादः षडङ्गुलैः ॥ २९ ॥ पादद्वयं वितस्तिस्त्यात्ततो हस्तो द्विसङ्गुणः । दण्डो हस्तचतुषेण क्रोशस्तद्धिमहस्रकम् ॥ ३० ॥ योजनं चतुरः क्रोशान्प्राहुः क्षेत्रविचक्षणाः । वक्ष्यतेऽतः परं कालपरिभाषा यथाक्रमम् ॥ ३१ ॥ अथ कालपरिभाषा । अणुरण्वन्तरं काले व्यतिक्रामति यावति । स कालस्समयोऽसङ्ख्यैस्समयैरावलिर्भवेत् ॥ ३२ ॥ सङ्ख्यातावलिरुच्छ्वासः स्तोकस्तूच्छ्वाससप्तकः । स्तोकास्सत लवस्तेषां साधष्टात्रिंशता घटी ॥ ३३ ॥ घटीद्वयं मुहूर्तोऽत्र मुहूर्तेस्त्रिंशता दिनम् । पञ्चनौस्त्रदिनैः : पक्षः पक्षौ हौ मास इष्यते ॥ ३४ ॥ ऋतुर्मासद्वयेन स्यात्रिभिस्तैरयनं मतम् । तद्दुयं वत्सरो वक्ष्ये धान्यमानमतः परम् ॥ ३५ ॥ अथ धान्यपरिभाषा । विद्धि षोडशिकास्तत्र चतस्त्रः कुडहों भवेत् । कुडहां 'श्चतुरः प्रस्थश्चतुः प्रस्थानथाढकम् ॥ ३६ ॥ चतुर्भिराट कैद्रोणो मानी द्रोणै चतुर्गुणैः । खारी मानीचतुषेण खार्यः पञ्च प्रवर्तिका ॥ ३७ ॥ M ऽन्ये. ● K and B वॉ. 3 K वां.