पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संज्ञाधिकारः किञ्चिदुहृत्य तत्सारं वक्ष्येऽहं नतिशक्तितः । अल्पं ग्रन्थमनल्पार्थं गणितं सारसङ्ग्रहम् ॥ १९ ॥ संज्ञाम्भोभिरथों पूर्णे परिकर्मोरु वैदिके । कलासवर्णसंरूढलुठत्पाठीनसङ्कुले ॥ २० ॥ प्रकीर्णक महाग्राहे त्रैराशिकतरङ्गिण । मिश्रकव्यवहारोद्यत्सूक्तिरत्नांशुपिञ्जरे ॥ २१ ॥ क्षेत्रविस्तीर्णेपाताले खानाख्यं सिकताकुले | करणस्कन्धसम्बन्धच्छायावेला विराजिते ॥ २२ ॥ गगकैर्गुणसम्पूर्णैस्तदर्थमणयोऽमलाः । गृह्यन्ते करणोपायैस्तारसङ्ग्रहवारियौ ॥ २३ ॥ अथ संज्ञा । न शक्यतेऽर्थो बोद्धुं यत्सर्वस्मिन् संज्ञया विना | आदावतोऽस्य शास्त्रस्य परिभाषाभिचारयते ॥ २४ ॥ तत्र तावत् क्षेत्रपरिभाषा| जलानलादिभिर्नाशं यो न घारिस पुंगलः । परमाणुरनन्तैस्तैरणुस्सोऽत्रादिरुच्यते ॥ २५ ॥ त्रसरेणुरतस्तस्माद्रथरेणुः शिरोरुहः । परमध्यजघन्याख्या भोगभूकर्मभूभुवाम् ॥ २६ ॥ लीक्षा तिलस्स एवेह सर्षपोऽथ’ योऽङ्गलम् । क्रमेणाष्टगुणान्येतद्व्यवहाराङ्गुलं मनम् || २७ || - K संज्ञातोयसमा. M and B अल्प". M द्ध (Probably a scribe's mistake for त्य) P द्य. • K and Pणु. • P and B - ध्य. "P. I. 1 M and B सङ्कटे. 7 Mand B व. 3