पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

146 गणितसारसङ्ग्रहः. समचतुरश्राष्टादशहस्तभुजा वापिका चतुर्वेधा । बापी तज्जलपूर्णान्या नवबाहात्र को वेधः ॥ २१ ॥ यस्य कस्यचित्वातस्य ऊर्ध्वस्थितभुजासङ्ख्यां व अधस्स्थित- भुजासङ्ख्यां च उत्तेधप्रमागं व ज्ञात्वा, तत्खाते इष्टोत्तेधसङ्ख्यायाः भुजासङ्ख्यानयनस्य, अधसूचिवेधस्थ व सङ्ख्यान्यनस्य सूत्रम्- मुखगुणवेधो मुखतलशेषहृतोऽत्रैव सूचित्रेधः स्यात् । विपरीतवेधगुणभुजतलथुत्यवलम्वहव्यातः ॥ २६ ॥ अत्रोद्देशकः । समचतुरश्रा वापी विंशतिरूवे चतुर्दशाचश्च । वेधो मुखे नबाधस्त्रयो भुजाः केऽत्र सूचिवेधः कः ॥ २७३ ॥ गोलका कारक्षेत्रस्य फलानधन सूत्रम् - व्यासार्धधनार्धगुणा नव गोलव्यावहारिकं गणितम् | तद्दशमांशं नवगुणमशेषसूक्ष्मं फलं भवति ॥ २८३॥ अत्रोद्देशकः । षोडशविष्कम्भस्य च गोलकवृत्तस्य विगणय्य । किं व्यावहारिकफलं सूक्ष्मफलं चापि मे कथय ॥ २९ ॥ शृङ्गाटकक्षेत्रस्य खातव्यावहारिकफलस्य खातसूक्ष्मफलस्य च सूत्रम्- - भुजकृतिदलघनगुणदशपदनवव्यावहारिकं गणितम् । त्रिगुणं दशपइभक्तं शृङ्गाटकसूक्ष्मघनगणितम् ॥ ३० ॥ अत्रोद्देशकः ।

  • यश्रस्य च शृङ्गाटकषड्बाहुघनस्य गणपित्वा ।

किं व्यावहारिकफलं गणितं सूक्ष्मं भवेत्कथय ॥ ३१३ ॥