पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खातव्यवहारः. त्रिभुजस्य मुखेऽशीतिः षष्टिर्मध्ये तले च पञ्चाशत् । बाहुत्रयेऽपि वेधो नव किं तस्यापि भवति गणितफलम् ॥ १८ ॥ खातिकायाः खातगणितफलानयनस्य च नातिकाया मध्ये सूची- मुरखाकारवत् उत्सेधे सति खातगणितफलानयनस्य च सूत्रम् - परिखामुखेन सहितो विष्कम्भस्त्रिभुजवृत्तंयोस्त्रिगुणात् । आयामश्चतुरश्रे चतुर्गुणो व्याससङ्गुणितः ॥ १९३॥ सूचीमुरवुवद्वेधे परिखा मध्ये तु परिवार्धम् । मुरवसहितमथो करणं प्राग्वत्तलसूचिवेधे च ॥ २० ॥ अत्रोद्देशकः 145 त्रिभुजचतुर्भुजवृत्तं पुरोदितं परिरवया परिक्षिप्तम् । दण्डाशीत्या व्यासः परिवाश्चतुरुर्विकास्त्रिवेधाः स्युः ॥ २१ ॥ आयतचतुरायामो विंशत्युत्तरशतं पुनर्व्यासः । चत्वारिंशत् परिखा चतुरुर्बीका त्रिवेधा स्यात् || २२ || उत्सेधे बहुप्रकारवति सति खातफलानयनस्य च, यस्य कस्यचित् खातफलं ज्ञात्वा तत्वातफलात् अन्यक्षेत्रस्य खातफलानयनस्य च सूत्रम्- वेधयुतिः स्थानहृता वेधो मुखफलगुणः स्वरखानफलम् । त्रिचतुर्भुजवृत्तानां फलमन्यक्षेत्रफलहृतं वेधः ॥ २३ ॥ अत्रोद्देशकः । समचतुर श्रक्षेत्रे भूमिचतुर्हस्तमात्रविस्तारे । तत्रैकद्वित्रिचतुर्हस्तनिखाते कियान् हि समवेधः॥ २४ ॥ 14-A