पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेत्रगणित व्यवहारः. त्रिसमचतुरश्रस्योदाहरणम् । गणितं सूक्ष्मं पश्च त्रयोदश व्यावहारिकं गणितम् । त्रिसमचतुरश्रबाहून् सश्चिन्त्य सवे ममाचक्ष्व || १६७३॥ व्यावहारिकस्थूलफलं सूक्ष्मफलं च ज्ञात्वा तव्यावहारिकस्थूलफलवत्- सूक्ष्मगणितफलवत्समत्रिभुजानयनस्य च समवृत्तक्षेत्रव्यासानयनस्य च सूत्रम्- सूत्रम्- 133 धनवर्गान्तरमूलं यत्तन्मूलाविसङ्गुणितम् । बाहुस्त्रिसमत्रिभुने समस्य वृत्तस्य विष्कम्भः ॥ १६८३॥ अत्रोद्देशकः । स्थूलं धनमष्टादश सूक्ष्मं त्रिघनो नवाहत: करणिः । विगणय्य सस्खे कथय त्रिसमत्रिभुजप्रमाणं मे ॥ १६९३॥ पञ्चकृतेर्वर्गो दशगुणितः करणिर्भवेदिदं सूक्ष्मम् । स्थूलमपि पञ्चसप्ततिरेतत्को वृत्तविष्कम्भः ॥ १७०३॥ व्यावहारिकस्थूलफलं च सूक्ष्मगणितफलं च ज्ञात्वा तव्यावहारिक- फलवत्तत्सूक्ष्मफलवद्द्विसमत्रिभुजक्षेत्रस्य भूभुजाप्रमाणसङ्ख्ययोरानयनस्य फलवर्गान्तरमूलं द्विगुणं भूर्व्यावहारिकं बाहुः । मूम्यर्धमूलभक्ते द्विसमत्रिभुजस्य करणमिदम् ॥ १७१३ ॥ अत्रोद्देशकः । मूक्ष्मधनं षष्टिरिह स्थूलधनं पत्रषष्टिरुद्दिष्टम् । गणयित्वा ब्रूहि सवे द्विसमत्रिभुजस्य भुजसङ्ख्याम् ॥ १७२३॥