पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेत्रगणित व्यवहारः. द्विसमत्रिभुजक्षेत्रे प्रथमस्य धनं द्विसङ्गणितम् । रज्जुः समा इयोरपि को बाहुः का भवेद्भूमिः ॥ १३९॥ द्वितमात्रिभुजक्षेत्रे द्वे रज्जुर्द्विगुणिता द्वितीयस्य । गणिते द्वयोस्समाने को बाहुः का भवेनिः ॥ १४० ।। द्विसमत्रिभुजक्षेत्रे प्रथमस्य धनं द्विसङ्गुणितम् । द्विगुणा द्वितीयरज्जुः को बाहुः का भवेद्भूमिः ।। १४१ ॥ एकड्यादिगणनातीतसङ्ख्यासु इष्टसङङ्ख्यामिष्टवस्तुनो भाग- सङ्ख्यां परिकल्प्य तदिष्टवस्तुभाग सङ्ख्यायाः सकाशात् समचतुरश्र- क्षेत्रानयनस्य च समवृत्तक्षेत्रानयनस्य च समात्रेभुजक्षेत्रानयनस्य चायत- चतुरश्रक्षेत्रानयनस्य च सूत्रम स्वसमीकृतावषृतिहृतवनं चतुर्ध्न हि वृत्तसमचतुरश्रव्यासः । षड्गुणितं त्रिभुजायतचतुरश्रभुजार्धमपि कोटिः ॥ १४२ ॥ 129 अत्रोद्देशकः । स्वान्तःपुरे नरेन्द्रः प्रासादतले निजामनामध्ये | दिव्यं स रत्नकम्बलमपपितत्तच्च समवृत्तम् ॥ १४३ ॥ ताभिर्देवीभिर्धृतमभिर्भुजयोश्च मुष्टिभिलैब्धम् । पञ्चदशैकस्याः स्युः कति वनिताः कोऽत्र विष्कम्भः ॥ १४४ ॥ ॥ समचतुरश्रभुजाः के समत्रिबाहौ भुजाश्चात्र | आयतचतुरश्रस्य हि तत्कोटिभुजौ सरखे कथय ॥ १४५ ॥ क्षेत्रफलसङ्ख्यां ज्ञात्वा समचतुरश्रक्षेत्रानयनस्य चायतचतुरश्र- क्षेत्रानयनस्य च सूत्रम् सूक्ष्मगणितस्य मूलं समचतुरश्रस्य बाहुरिष्टहृतम् । धनमिष्टफले स्यातामायतचतुरश्रकोटिभुजौ ॥ १४६ ॥