पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

120 गणितसारसज्जन्हः अत्रोद्देशकः । चतुर्विंशतिरायामो विस्तारोऽष्टौ मुखद्वये । क्षेत्रे मृदङ्गसंस्थाने,मध्ये षोडश किं फलम् ॥ ७७३ ॥ चतुर्विंशतिरायामस्तथाष्टौ मुखयोर्द्वयोः । चत्वारो मध्यविष्कम्भः किं फलं पणवाकृतौ ॥ ७८३ ॥ चतुर्विंशतिरायामस्तथाष्टौ मुखयोर्द्वयोः । मध्ये सूचिस्तथाचक्ष्व वज्त्राकारस्य किं फलम् ।। ७९३ ॥ नेमिक्षेत्रस्य च बालेन्द्राकारक्षेत्रस्य च इभदन्ताकारक्षेत्रस्य च सूक्ष्म- फलानयनसूत्रम्- ष्टष्ठोदरसंक्षेपः षड्भक्तो व्यासरूपसङ्गणितः । दशमूलगुणो नेमेर्बालेन्द्रिभदन्तयोश्च तस्यार्धम् ॥ ८०३ ॥ अत्रोद्देशकः । ष्ठष्ठं चतुर्दशोदरमष्टौ नेम्याकृतौ भूमौ । मध्ये चत्वारि च तद्वालेन्दोः किमिभदन्तस्य ॥ ८१३॥ चतुर्मण्डलमध्यस्थितक्षेत्रस्य सूक्ष्मफलानयनसूत्रम्- विप्कम्भवर्गराशेर्वृत्तस्यैकस्य सूक्ष्मफलम् । त्यक्त्वा समवृत्तानामन्तरजफलं चतुर्णां स्यात् ॥ २३ ॥ अत्रोद्देशकः गोलकचतुष्टयस्य हि परस्परस्पर्शकस्य मध्यस्य । सूक्ष्मं गणितं किं स्याच्चतुष्कवि'कम्भयुक्तस्य || ८३३ ॥