पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेत्रगणित व्यवहारः यवाकारक्षेत्रस्य च धनुराकारक्षेत्रस्य च सूक्ष्मफलानयनसूत्रम् – इषुपादगुणश्च गुणो दशपदगुणितश्च भवति गणितफलम् | यवसंस्थानक्षेत्रे धनुराकारे च विज्ञेयम् ।। ७० 11 २ अत्रोद्देशकः । द्वादशदण्डायामो मुखद्वयं सूचिरपि च विस्तार: 4 चत्वारो मध्येऽपि च' यवसंस्थानस्य किं तु फलम् || ७१३ ॥ धनुराकारसंस्थाने ज्या चतुर्विंशतिः पुनः । चत्वारोऽस्येपुरुद्दिष्टस्सूक्ष्मं किं तु फलं भवेत् ॥ ७२३॥ 119 धनुराकारक्षेत्रस्य धनुःकाष्ठबाणप्रमाणानयनसूत्रम् – शरवर्गः षङ्गुणितो ज्यावर्गसमन्वितस्तु यस्तस्य । मूलं धनुर्गुणेषुप्रसाधने तत्र विपरीतम् ॥ ७३३॥ विपरीतक्रियायां सूत्रम्-- गुणचाप कृतिविशेषाचर्कहतात्पदमिपुः समुद्दिष्टः । शरवर्गात् षड्डुणितादूनं’ धनुषः कृतेः पदं जीवा ॥ ७४३ ॥ अत्रोद्देशकः । धनुराकारक्षेत्रे ज्या द्वादश षट् शरः काष्ठम् । न ज्ञायते सरवे त्वं का जीवा कश्शरस्तस्य || ७१३ ॥ मृदङ्गनिभक्षेत्रस्य च पणवाकारक्षेत्रस्य च वज्राकारक्षेत्रस्य च सूक्ष्मफलॉनयनसूत्रम्— मुखगुणितायामफलं स्वधनुःफलसंयुनं मृदङ्गनिभे । तत्पणववज्ञनिभयोर्धेनुःफलोनं तयोरुभयोः ॥ ७६३ ॥ 1 The reading it, both B and M 19 69 given ah vo, but षड़णितादूनाया धनुष्कृतेः पदं जवा gives the required meaning