पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः अपरार्धोदाहरणम् । षड़ योजनानि कश्चित्पुरुषस्त्वपरः प्रयाति च त्रीणि । उभयोरभिमुखगत्योरष्टोत्तरशतकयोजनं गम्यम् | प्रत्येकं च तयोः स्यात्कालः किं गणक कथय मे शीघ्रम् ॥ ३२१ ॥ सङ्कलितसमागमेकालयोजनानयनसूत्रम्- उभयोराद्योश्शेषश्चयशेषहृतो द्विसङ्गुणः सैक: । युगपत्प्रयाणयोस्स्यान्मार्गे तु समागमः कालः ॥ ३२२३॥ अत्रोद्देशकः । 107 चत्वार्याद्यष्टोत्तरमेको गच्छत्वथो द्वितीयो ना । द्वौ प्रचयश्च दशादिः समागमे कस्तयोः कालः || ३२३३ ॥ वृद्ध्युत्तरहीनोत्तरयोस्समागमकालानयनसूत्रम् – शेषश्चाद्योरुभयोश्चययुतदलभक्तरूपयुतः । युगपत्प्रयाणकृतयोर्मार्गे संयोगकालः स्यात् ॥ ३२४३ ॥ अत्रोद्देशकः । पश्चाद्यष्टोत्तरतः प्रथमो नाथ द्वितीयनरः । आदिः पञ्चघ्ननव प्रचयो हीनोऽष्ट योगकालः कः || ३२५३ ॥ शघ्रिगतिमन्दगत्योस्समागमकालानयनसूत्रम्- मन्दगतिशीघ्रगत्योरेकाशागमनमत्र गम्यं यत् । तद्गत्यन्तरभक्तं लब्धदिनैस्तैः प्रयाति शीघ्रोऽल्पम् ॥ ३२६३ ॥ अत्रोद्देशकः । नवयोजनानि कश्चित्प्रयाति योजनशतं गतं तेन । प्रतिदूतो व्रजति पुनस्त्रयोदशाप्नोति कैर्दिवसैः ॥ ३२७ ॥ 10-A