पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

106 गणितसारसङ्ग्रहः का भवति कथय शीघ्रं यदि तेऽस्ति परिश्रम गणिते ॥ ३१३ ॥ अधिकहीनगुणसङ्कलितानयनसूत्रम्-- गुणचितिरन्यादिहृता विपदाधिकहीनसगुणा भक्ता । व्येकगुणेनान्या फलरहिता हीनेऽधिके तु फलयुक्ता ॥ ३१४॥ अत्रोद्देशकः । पञ्च गुणोत्तरमादि त्रीण्यधिकं पदं हि चत्वारः | अधिक गुणोत्तरचितिका कथय विचिन्त्यिाशु गणिततत्त्वज्ञ ॥ ३१५ ॥ आदि स्त्रीणि गुणोत्तरमष्टौ हीनं द्वयं च दश गच्छः । हीन गुणोत्तरचितिका का भवति विचिन्त्य कथय गणकाशु ॥ ३१ ॥ आद्युत्तरगच्छधनमिश्राद्युत्तरगच्छानयनसूत्रम्- मिश्रादुद्धृत्य पदं रूपोनेच्छाधनेन सैकेन । लब्धं प्रचयः शेषः सरूपपदभाजितः प्रभवः ॥ ३१७ ॥ अत्रोद्देशकः । आधुत्तर पदमिश्रं पञ्चाशद्धनमिहैव सन्दृष्टम् । गणितज्ञाचक्ष्व त्वं प्रभवोत्तरपदधनान्याशु ॥ ३१ ॥ सङ्कलितगतिध्रुवगतिभ्यां समानकालानयनसूत्रम्- ध्रुवगतिरादिविहीनश्चयदलभक्तस्तरूपकः कालः । द्विगुणो मार्गस्तद्गतियोगहृतो योगकालस्स्यात् ॥ ३१९ ॥ अत्रोद्देशकः । कश्चिन्नरः प्रयाति त्रिभिरादा उत्तरैस्तथाष्टाभिः । नियतगतिरेकविंशतिरनयोः कः प्राप्तकालः स्यात् ॥ ३२० ॥