पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

72 गणितसारसङ्ग्रहः अत्रोद्देशकः । एकत्रिपञ्चमिश्रितविंशतिरिह कालमूलयोर्मिश्रम । षड् दश चतुर्दश स्युर्लाभाः किं मूलमत्र साम्यं स्यात् ॥ ५२ ॥ पञ्चत्रिंशन्मिश्रं सप्तत्रिंशच नवयुतत्रिंशत् । विंशतिरष्टाविंशतिरथ षट्त्रिंशच्च वृद्धिधनम् ॥ ५३ ।। उभयप्रयोगं मूलानचर्नसूत्रम् -- रूपस्येच्छ(कालादुभयफले ये तयोर्विशेषेण 1 लब्धं विभजेन्मूलं स्वपूर्वसङ्कल्पितं भवति ॥ ५४ ॥ अत्रोद्देशकः । उद्वृत्त्या षट्शते प्रयोजितोऽसौ पुनश्च नवकशते । मासैस्त्रिभिश्च लभते सैकाशीति क्रमेण मूलं किम् ॥ ५५ ॥ त्रिवृद्धचैव शते मासे प्रयुक्तश्चाष्टभिश्शते । लाभोऽशीतिः कियन्मूलं भवेत्तन्मासयोर्द्वयोः ॥ ५६ ॥ बृद्धिमूलविमोचनकालानयनसूत्रम् – मूलं स्वकालगुणितं फलगुणितं तत्प्रमाणकालाभ्याम् । भक्तं स्कन्धस्य फलं मूलं कालं फलात्प्राग्वत् ॥ ५७ ॥ अत्रोद्देशकः । मासे हि पञ्चैव च सप्ततीनां मासद्वयेऽष्टादशकं प्रदेयम् । 1 This so'ne rule is so newhat defectively stated again with a modiñeation in reading thus: घुनर प्युभयप्रयोगमूलानयनसूत्रम् - इच्छाकालादुभयप्रयोगवृद्धिं समानीय । तद्वृद्धथन्तरभक्तं लब्धं मूलं विजानीयात् ॥