पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः च संपीड्य तन्मिश्रराशौ प्रमाणराशेः वृद्धिविभागानयनसूत्रम्- कालगुणितप्रमाणं परकालहृतं तदेकगुणमिश्रधनात् । इतरार्धकृतियुतात् पदमितरार्धोनं प्रमाणफलम् ॥ १४ ॥ अत्रोद्देशकः । मासचतुष्कशतस्य प्रनष्टवृद्धिः प्रयोगमूलं तत् । स्वफलेन युतं ह्यदश पञ्चकृतिस्तस्य कालोऽपि ॥ ४५ ।। मासत्रितयाशीत्याः प्रनष्टवृद्धिः स्वमूलफलराशेः । पञ्चमभागेनोना श्राष्टौ वर्षेण मूलवृद्धी के ॥ १६ ॥ समानमूलवृद्धिमिश्रविभागसूत्रम्- अन्योन्यकालविनिहतमिश्रविशेषस्य तस्य भागाख्यम् । कालविशेषेण हृते तेषां मूलं विजानीयात् ॥ ४७ ॥ अत्रोद्देशकः । पञ्चाशदष्टपञ्चाशन्मिश्रं षट्षष्टिरेव च । पञ्च सप्तैव नव हि मासाः किं फलमानय ॥ ४८ ॥ त्रिंशञ्चैकत्रिंशद्धित्र्यंशाः स्युः पुनस्त्रयस्त्रिंशत् । सत्र्यंशा मिश्रधनं पञ्चत्रिंशच्च गणकादात् ॥ ४९ ॥ कश्चिन्नरश्वतुर्णां त्रिभिश्चतुर्भिश्च पञ्चभिः षड्भिः | मासैलब्धं किंस्यान्मूलं शीघ्रं ममाचक्ष्व ॥ ५० ॥ समानमूलकालमिश्रविभागसूत्रम् – अन्योन्यवृद्धिसङ्गणमिश्रविशेषस्य तस्य भागाख्यम् । 9 वृद्धिविशेषेण हृते लब्धं मूलं बुधाः प्राहुः ॥ ५१ ॥