पृष्ठम्:Dvisandhanam kavya.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। नीलनीलान् प्रदेशान् नीलाभ्राणां शङ्कया अध्यासीना निश्चला बलाका बक्यो भान्ति ॥ शालिनी ॥ एषामुष्मिन्विलसति मुक्ताशुक्तिर्मुक्ता शुक्तिः प्रसवनिरोधस्यालम् । रोधस्यालम्बितफलवामाश्वासर्वामाश्वासैः सपदि यथोद्बोधेन ॥ ११ ॥ (शृङ्खला) एषेति ॥ अमुष्मिन्देशे एषा मुक्ताशुक्तिः (यस्यां मुक्ताफलानि प्रसूयन्ते तत्पुटम्) विलसति । यथा उद्बोधेन मुखविकसनेन आलम्बितफलवामाश्वासैः आलम्वितः फलानां वामेन उद्गिरणेन आशु शीघ्रम् आसः क्षेपणं यैस्तैः, वामाश्वासैनिःसरणवायुभिः, सपदि सह प्रसवनिरोधस्य प्रसूतिप्रतिबन्धस्य शुक्तिः शोको रोधसि कूले अलमत्यर्थ मुक्ता ॥ चक्रवालयमकम् ।। जलधरमाला ॥ गोखुराहत इवायमेकतो वर्तिकाभिरिव वर्तितोऽन्यतः । मेघविभ्रम इवाम्बुधिः क्वचित्संकुलः स कुलपर्वतैरिव ॥ १२ ॥ गोखुरेति ॥ अयम् अम्बुधिः एकत एकस्मिन्स्थाने गोखुराहतो गवां खुरैराहत इव, अन्यतोऽन्यस्मिन्स्थाने (शिल्पिभिः) वर्तिकाभिश्चित्रलेखनिकाभिः वर्तितो लिखित इव, कचित् मेघविभ्रमो जलदोदयसंशय इव, क्वचित् कुलपर्वतैः संकुल इव माति ॥ रथोद्धता॥ उद्युक्तानामुदधिमहत्त्वस्तुत्या युक्त्यैतमिन्ननु गुणभारत्यागः । स्थाने स्थाने भवति कवीनां कुर्वत्युक्त्यै तस्मिन्ननुगुणमारत्यागः॥१३॥ (अन्त्यपादयमकम्) उद्युक्तेति ॥ ननु अहो उदधिमहत्त्वस्तुत्याः समुद्रगरिमवर्णनाया युक्त्या विचारणेन उ. धक्तानां कवीनाम् उक्त्यै निर्वचनाय अनगणमारत्यागः अनगणसरस्वतीदोषम् कुर्वति स्थाने स्थाने गुणभारत्यागः गुणानां यथोक्तशास्त्रोपदेशपरिज्ञानादिलक्षणानां भारस्य त्यागः भवति ॥ जलधरमाला ॥ किं मर्यादामेष जलात्मा परिवारो लोलो भिन्द्यादित्युपपश्यन्निव कूलम् । गत्वा गत्वावृत्तिमुदन्वान्भजतेऽयं न प्रत्येति स्वाम्यनुवर्ग प्रतिकूलम्॥१४॥ किमिति ॥ अयम् उदन्वान् ‘एष जलात्मा जलरूपः परिवारः, लोलश्चञ्चलः सन् मर्यादां किं भिन्द्यात्' इति उपपश्यन्निव कूलं रोधो गत्वा गत्वा आवृत्ति भजते ॥स्वामी प्रतिकूलं प्रतिकूलगामिनम् अनुचरं न प्रत्येति ॥ मत्तमयूर वृत्तम् ॥ वेगोऽत्येति प्रतिदिशमापूर्णानामालोकान्तं हिमकरविध्वस्तानाम् । वेलौघानां प्रतिनिशमस्मिन्नेषामालोकान्तं हि मकरविध्वस्तानाम् ॥११॥ (अन्त्यपादयमकम्) Digized b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/९६&oldid=234555" इत्यस्माद् प्रतिप्राप्तम्