पृष्ठम्:Dvisandhanam kavya.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ सर्गः] द्विसंधानम् । परिहतैरिह तैः कृतबुहुदैः समकरैर्मकरैरुदधे लैः । उपरुषा परुषा नयनावलिः समुदिता मुदितानुकृताकुलैः ॥ ५ ॥ परीति ॥ इह देशे तैरतिरौद्रतया लोकप्रसिद्धैः समकरैस्तुल्यशुण्डादण्डैः, आकुलैः, मकरैः कर्तृभिः परिहतैरुदधैर्जलैः कर्तमिरुपरुषा आसनकोपेन परुषा निष्ठुरा समुदिता मिलिता अनूना वा मुदिता हृष्टा नयनावलिश्चक्षुःश्रेणिरनुकृता॥ कल्लोलाः सपदि समुदृता मरुद्भिर्गण्डूषा इव करियादसां विभान्ति । और्वाग्निज्वलनशिखाकलापशङ्कामेतस्मिन्विदधति पद्मरागभासः ॥ ६ ॥ कल्लोला इति ॥ मरुद्भिः समुद्धृताः कल्लोलाः करियादप्सां जलगजजलजन्तूनां गण्डूषा इव शीघ्रं विभान्ति ॥ एतस्मिन् पद्मरागभास और्वाग्निज्वलनशिखाकलापशङ्को वडवान- लज्वलनज्वालासमूहभ्रान्ति विदधति जनयन्ति ॥ प्रहर्षिणी ॥ . भान्त्येतस्मिन्मणिकृतरङ्गाभोगास्तत्सारूप्यान्निहततरङ्गा भोगाः। क्रीडास्थानै रुचिरमहीनामुच्चैरुद्वान्तानां सुचिरमहीनामुच्चैः ॥ ७ ॥ भान्त्येतेति । एतस्मिन्प्रदेशे रुचिरमहीनां दीपावनीनाम् , उच्चैरत्यर्थे सुचिर दीर्घकालं यथा स्यात्तथा उद्वान्तानामुपर्युपरि चटताम् ,अहीनां सर्पाणां मणिकृतरङ्गाभोगा रनरसित- फणास्तत्सारूप्यात सर्पसादृश्यात् निहततरङ्गा विध्वस्तवीचयो, भोगाः काया उच्चैरत्यर्थे भान्ति ॥ जलधरमालावृत्तम् ।। आपातुं जलमिदमिन्द्रनीलजालव्याजेन व्यवतरतीव मेघजालम् । वक्षोभिः करीमकरैविभिन्नमम्भो यात्युद्यन्मणिरुचि शकचापभावान्।।८॥ आपातुमिति ॥ इदं मेघजालम् इन्द्रनीलजालव्याजेन जलमापातु व्यवतरतीव । तथा करिमकरैर्वक्षोभिर्विभिन्नम् उद्यमणिरुचि उद्यती मणीनामिव रुचिर्यस्य तत, अम्भः श- ऋचापभावान् याति ।। प्रहर्षिणीवृत्तम् ॥ एतान्प्रवालविटपान्खतटीभिरूढारूढानिषिञ्चति हतैरुदधिस्तरङ्गैः। रङ्गैरिहाम्बुकरिणां निकटे वसन्तं सन्तं न सत्त्वसहिता ह्यवधीरयन्ति ॥९॥ (शृङ्खला) एतानिति ॥ उदधिः स्वतटीभिः उढान, रूढान् समुत्पन्नान्, एतान् प्रवालविटपान् विद्रुमवृक्षान् अम्बुकरिणां रमर्गतिभिः हतैः, तरङ्गैः इह निषिश्चति ॥ हि यतः सत्त्वस. हिताः जना निकटे वसन्त सन्तं न अवधीरयन्ति ॥ अर्थान्तरन्यासः । वसन्ततिलकम् ॥ अध्यासीना निश्चला निस्तरङ्गानेतानेता नीलनीलान्प्रदेशान् । नीलाभ्राणां शङ्कया कि बलाका नो शङ्खानां पतयस्ता विभान्ति॥१०॥ अध्यासीति ॥ ताः शङ्खानां पतयो नो विभान्तिं । किं तु एता निस्तरङ्गान् एतान् Digitzed by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/९५&oldid=234554" इत्यस्माद् प्रतिप्राप्तम्