पृष्ठम्:Dvisandhanam kavya.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ काव्यमाला। बभौ महलोहितसंभृतं सरः प्रपीयमानं तटवर्तिभिः खगैः । यमेन रक्तं विनिगीर्य देहिनामजीर्णमुद्गीर्णमिवातिपानतः ॥ ४२ ॥ पभौ इति ॥ लोहितसंभृतं रुधिरपूर्ण महत् सरः तटवर्तिमिः कूलस्यैः खगैः पक्षिमिः प्रपीयमानं सत्, यमेन देहिना रक्त विनिगीर्य विशेषतः पीत्वा अतिपानतः उद्गीर्णमजीर्ण- भिव, बभौ ॥ उत्प्रेक्षा ॥ ग्रता हयेभ्योऽप्यसवोऽतिवेगतो गजा मुमूर्छः शरवर्षतोऽगजाः । रथा विभिन्नाः पतिता मनोरथा नरा गतास्ते न समानरागता ॥४३॥ गता इति ॥ शरवर्षतो वाणवृष्टया, हयेभ्योऽश्वेभ्योऽतिवेगतः शीघ्रमेव असवः प्राणा गताः । तथा अगजा पर्वतजा गजा मुमूर्छः । स्था विमिनाः । मनोरथाः पतिता भ्रष्टाः । ते योधा नरा गताः पलायिताः । समानरागता मानेन सहितो रागो येषां तद्भावः न गता ॥ समुच्चयः ॥ तथा द्विपेन्द्रास्तुरगाः पदातयो महान्वया भूपतयःक्षणेन तत्। गतं समस्तं समवर्तिनो मुखं च्युतं न चोचं स्थितमेव विस्मितम् ॥४४॥ तथेति ॥ तत् पूर्वोक्तं समस्तं बलं क्षणेन समवर्तिनो यमस्य मुखं गतम् मृतम् । यत् च्युतं नष्टं तत् न चोयम् नाश्चर्यम् । यत् स्थितं जीवितं तदेव विस्मितं विस्मयः ॥ तथाहि भोगाः स्तनयित्नुसंनिभा गजाननाधूननचञ्चलाः श्रियः। निनादिनाडिंधमकण्ठनाडिवच्चलाचलं न स्थिरमायुरङ्गिनाम् ॥ ४५ ॥ तथाहीति ॥ भोगा मेघसंनिभाः, श्रियः करिवदनप्रकम्पचञ्चलाः, चलाचलं निनादि- नाहिंधमकण्ठनादिवत् नालिकया फूत्कारवेलायां किंचिन्नादसत्वेन फूत्कारिस्वर्णकारक- ण्ठनाडिवत् न स्थिरम्, अजिनां देहिनाम् आयुः न स्थिरम् ॥ अशेषमाकीर्णमुपैति शून्यतां क्षणाद्वियुले समवेतमुच्चकैः । यदेव रक्कं भजते विरक्ततामहो नु भावाः क्षणिकाः स्वभावतः ॥४६॥ अशेषमिति ॥ आकीर्ण संचितम् । अशेष सकलं क्षणात् शून्यतामुपैति, उच्चकैः अति- शयेन समवेत संबद्धं क्षणात् वियुद्धे वियोगं भजते । यदेव रक्तं सानुरागं तत्क्षणात् विर- कतां वैराग्यं भजते। अहो नुभावाः पदार्थाः स्वभावतः क्षणिकाः सन्ति ॥ ततः स्फुटं पञ्चकमीक्षमाणौ तौ सिंहपोताविव विक्रमेण । निर्जग्मतुयुद्धमुखाग्नरेन्द्रौ क्रोधाभिमानाविव मूर्तिमन्तौ ॥४७॥ तत इति ॥ ततोऽनन्तरं तौ नरेन्द्रौ रामलक्ष्मणौ भीमार्जुनौ च पश्चक रणम् ईक्ष. माणौ सन्तौ युद्धमुखात् रणभूमितः विक्रमेण सिंहपोती इव, मर्तिमन्तौ क्रोधाभिमानी इव, निर्जग्मतुः निर्गतवन्तौ ।। उत्प्रेक्षा ॥ वृत्तमुपजातिः ॥ Dogticed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/७४&oldid=234530" इत्यस्माद् प्रतिप्राप्तम्