पृष्ठम्:Dvisandhanam kavya.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ सर्गः] द्विसंधानम् । अन्तःपुरकामिनीवाष्पैः सह पपात । तदनु] दिव आकाशात सुरासुराणा देवदानवानां कुसुमाञ्जलि: पुष्पाअलिः मधुपायिभिभ्रमरैः समं सह तयोर्नरेन्द्रयोः उपरि] अपात् ॥ सहोक्तिः ।। निपीय रक्तं सुरपुष्पवासितं सितं कपालं परिपूर्य सूनृताम् । नृतां प्रशंसन्त्यनयोननते न नर्तवाचोर्युधि रक्षसां ततिः ॥ ३७॥ (शृङ्गलाबन्धोऽयम्) निपीयेति ॥ रक्षसां ततिः युधि सुरपुष्पवासितं रक्तं सितं कपालं परिपूर्य निपीय सूमृतां सत्यप्रियाम् ऋतवाचोः सत्यवयनयोरनयो राजपुत्रयोदृतां मनुष्यतां प्रशंसन्ती सती न न ननर्त । ननव ॥ श्खलायमकम् ॥ प्रसार्य पादावधिरोप्य बालकं विधाय वक्रेऽङ्गुलिषङ्गमङ्गना । प्रवेशयामास वसां महीक्षितां प्रकल्प्य पाथः पिशिताशिनां शनैः ॥३८॥ प्रसायेति ॥ पिशिताशिनां राक्षसानाम् अङ्गना पादौ प्रसार्य पालकम् अधिरोप्य वके [पालकस्य अङ्गलिप विधाय महीक्षितां राझा वसां मांसास्थिगतमेहं पायोजलं प्रकल्प्य प्रवेशयामास पालं पापयामास ॥ समुत्पतन्तो दिवि रेणवोऽणवो विलूनमूलाः क्षतजेन तेन ते। अधःप्रदीप्तज्वलनाः सितासिता रणस्य धूमा इव रेजिरेऽजिरे ॥ ३९॥ समुदिति ॥ तेन क्षतजेन रक्तेन विलूनमूला नष्टमूला अणवो रेणवो दिव्याकाशे समुत्पतन्तः सन्तः, अध:प्रदीप्तज्वलना धूमा इव, सितासिताः रणस्य अजिरे आणे रेजिरे ॥ उत्प्रेक्षालंकारः॥ शवाः शिवानां मुखतीयवहिना रथेषु देहस्थितबाणदारुणा । विदह्यमाना विधिमाययुर्भटाः स्त्रियश्च ता बाष्पजलाञ्जलिं ददुः ॥४०॥ शवा इति ॥ शवा मृता भटा योधा शिवानां फेरवीणां मुखतीयवहिना मुखोद्भवान- लेन । 'मुखपार्श्वतसोर्लोपथ' इति छटिलोपाभ्यां सिद्धम् । का देहस्थितवाणदारुणा कायप्रविष्टशरेन्धनेन करणेन रथेषु विदयमानाः सन्तः विधि संस्कारम् आययुः । लियः कामिन्यः बाष्पनलाञ्जलिमश्रुजलामलिं ददुः ॥ समुच्चयः । मतङ्गजानामधिरोहका हता मतं गजानां विवशा विसरमरुः । तदीयपतया चपलायमानया परे विभिन्नाश्च पलायमानया ॥ ४१ ॥ मतनेति ॥ मतङ्गजाना करिणामधिरोहका आधोरणाः हतास्ताडिताः विवशाः सन्तः गजानो मतं शिक्षा विसस्मरः विस्मृतवन्तः। पुनश्चपलायमानया चचलायमानया प. लायमानया धावन्त्या तदीयपनया गजश्रेण्या परे शत्रवः विभिन्नाः॥ समुच्चयः ॥ Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/७३&oldid=234527" इत्यस्माद् प्रतिप्राप्तम्