पृष्ठम्:Dvisandhanam kavya.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ काव्यमाला। इनिति ॥ तौ यावत् शरानमुक्ताम्, अरातयः शरासन शरान् असूनप्यमुचन , त- प्रियाजनश्चाजस्रमश्रु व्यमुचत् , तथास्थिताः प्राणान्तिकावस्थां गता अप्यमी स्पो न तत्यजुः ॥ वक्रोक्तिः । विशेषसूत्रैरिव पत्तिभिस्तयोः पदातिरुत्सर्ग इवाहतोऽखिलः । पलायितोऽन्योन्यमवेक्ष्य निस्त्रपः सहाभिभूतस्त्रपते हि कस्य कः॥१०॥ विशेषेति ॥ विशेषसूत्रैर्बाधकविधिभिरिव, तयोः पत्रिभिः, आइतस्ताहितो पाधितश्च, उत्सर्गः सामान्यविधिरिव, अखिलः पदातिः नित्रपः सन् अन्योन्यमवेक्ष्य पलायितः। हि यतः सहाभिभूतः कः कस्य त्रपते ॥ अर्थान्तरन्यासः ॥ स तिर्यगन्वक्पुरतश्च विद्विषां दरीषु गुल्मेषु ददर्श तो गणः । असूनिवान्वेष्टुममुष्य चक्षुषोर्मनखिनौ बभ्रमतुर्मनःस्वपि ॥ ११॥ स तिर्येति ॥ स. विद्विषां गणः तिर्यक् पार्श्वभागे अन्वक् पश्चाद्भागे पुरतोऽप्रभागे दरीषु कंदरेषु गुल्मेषु झाटकेषु तो ददर्श । मनस्विनी ती, अमुष्य गणस्य असूनन्वेष्टुमि- व, अमुष्य चक्षुषोर्मनःसु च वभ्रमतुः ॥ उत्प्रेक्षा ॥ ययुर्विदेशं विदिशं जगाहिरे धुनीरगाधा विललचिरे गिरीन् । धृताः समुद्रस्य विलोलवीचिभिर्भयेऽपि भृत्या न पराक्रमं बहुः॥१२॥ ययुरिति ॥ भृत्याः पदातयो विदेश ययुः, विदिशं दिङ्मय अगाहिरे, अगाधा धुनी- नंदीगिरीश्च विललहिरे, समुद्रस्य विलोलवीचिभिवचलतरजैर्धताः । एवं भयेऽपि पा- क्रमं न जहुः । भयस्थानेऽपि समुद्रपतनादौ ग्लानि न जग्मुः ॥ वक्रोक्तिः ॥ बिम्बानि भान्वोरिव विभ्रतोस्तयोविंशङ्कया केचन कंदरोदरम् । तमिस्रसंघा इन तेऽधिशिश्यिरे कनष्टमार्गा न विशन्ति जन्तवः ॥१॥ विम्बानीति ॥ भान्वोरिव बिम्बानि विभ्रतोस्तयोविंशङ्कया तमिससंघाइक केचन भृत्याः कंदरोदरमधिशिक्षियरे । नष्टमार्गा जन्तवः वन विशन्ति ॥ अर्थान्तरन्यासः ॥ इति प्रतापादवगाढयोस्तयो रणस्य मध्यं रिपवोऽनुकूलताम् । हृदस्य जग्मुः करिणोरिवोर्मयश्चलाः सहन्ते किमिवातिवर्तिनः ॥१४॥ इति प्रेति ॥ रिपवः ऊर्मय इव रणस्य हृदस्येव मध्यम् अन्तः अवगाढयोः अधिष्ठित- वतोः, तयोzपयोः करिणोरिव प्रतापात्मभावात् अनुकूलताम् अनुलोमताम् अनुतटतो जग्मुः । चलाश्चञ्चला अतिवर्तिनोऽतिक्रमणशीलान् किमिव सहन्ते । अपि तु न ॥ अर्थान्तरन्यासः ॥ गतावशिष्टेषु बलेषु केष्वपि स्थितेषु पुजैः सरसस्तपेऽम्बुषु । अकालमेघा इव तत्र नायकाः समन्ततः संनिहिता धनुर्धताम् ॥ १५ ॥ Diginized by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/६८&oldid=234522" इत्यस्माद् प्रतिप्राप्तम्