पृष्ठम्:Dvisandhanam kavya.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ सर्गः] द्विसंधानम् । तपासमाधिष्विव तौ तपस्यता प्रसह्य कर्णेष्विव दिक्षु दन्तिनाम् । दिगीश्वराणां हृदयेष्विवायतं विकृष्य मौर्वी विनिजनतस्तराम् ॥ ४ ॥ तप इति ॥ तो मौवीं ज्याम, आयतं कर्णान्तं विकृष्याकृष्य, तपस्यता तपःसमाधि. विव, दिग्दन्तिनां कर्णेचिव, दिक्पालानां हृदयेष्विव, प्रसय विनिजनतुस्तराम् ॥ उत्प्रेक्षा ॥ ज्ययोविरिद्धं विनिशम्य धन्विनां निपेतुरस्त्राणि करान्मनांसि च । लथानि पूर्वाणि पराणि योषितां धनानि गूढान्यभवन्नभासदाम् ॥५॥ ज्ययोरिति ॥ ज्ययोः विरिद्धं ध्वनि विनिशम्य धन्विनां धनुर्धराणां करात् अस्त्राणि निपेतुः, च पुनः पूर्वाणि मनांसि श्लथानि, नभासदां देवानां योषितामबलानां गूढान्यालि- जनानि पराण्यतिशयितानि धनानि दृढानि अभवन् । यद्वा पूर्वाणि धनानि अद्यापि प्रे- मरसरसायनरसिकानि मनांसि गूढानि प्रच्छन्नाशयानि, पराणि श्लथानि प्रेमकलहकाल. शिथिलानि घनानि प्रेमरसरसायनरसिकानि अभवन् । अनेन ज्याध्वनः स्वर्गव्यापित्वं स्त्रीणामतिभीरुता च ध्वन्यते ॥ समुच्चयः ॥ गुणेन लोकं निनदेन दिङ्मुखं रुषान्तवहिं वपुषापि पूषणम् । हढेन चालीढपदेन मेदिनीं गणं रिपूणामविवेष्टतां शरैः ॥ ६ ॥ गुणेनेति ॥ ती गुणेन शौयौदार्यादिलक्षणेन लोकं जगत्, निनदेन शब्देन दिगन्तरम्, रुषा रोषेण अन्तवहिं प्रलयानलम्, वपुषा देहेन पूषणमादित्यम्, दृढेन आलीठेन दक्षिण- जाप्रसारपूर्वकयामजनासंकोचरूपस्थानकविशेषेण मेदिनी महीम्, शरै रिपूर्णा गणमवि- वेष्टता वेष्टितवन्तौ । समुच्चयः ॥ यशोवकाशस्य विधित्सया शरैर्दिशः परासारयतोरिवायतम् ।। विकृष्यमाणं युगमेव गव्ययोः ससार पश्चान्न पदं रणे तयोः ॥ ७ ॥ यशविति ॥ यशोवकाशस्य विधित्सया दिशः शरैः परासारयतोरिव तयोः आयतं क- र्णान्तं विकष्यमाणं गव्ययोः प्रत्यश्चयोर्युगमेव रणे पश्चात्ससार । नतु रणे तयोः पदं पश्चा- ससार ॥ उत्प्रेक्षा ॥ नृपौ रुषा पातयतां शिलीमुखान्समं सपना हृदयान्यपातयन् । विदूरमुच्चैःपदमध्यरुक्षतां भियाध्यरुक्षन्युधि वामलूरकम् ॥ ८॥ नृपाविति । सपमाः नृपरोषपातितवाणसमकालमेव हृदयानि अपातयन्, तथा नृपौ वि. दरमलाइयामुचैःपदवीमारूढवन्तौ, सपना युधि भिया वामलूरं छिद्रं प्रविविशुः ॥ स- हमा वक्रोक्तिः ॥ इन्विमर्देऽमुचतां शरासनं शरानसूनप्यमुचन्नरातयः । अजस्रमश्नु व्यमुचत्प्रियाजनस्तथास्थिताः स्पर्द्धममी न तत्यजुः ॥९॥ Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/६७&oldid=234532" इत्यस्माद् प्रतिप्राप्तम्