पृष्ठम्:Dvisandhanam kavya.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ सर्गः] द्विसंधानम् । वा यतः अस्थामकृतप्रयासा नश्यन्त्येव ॥ भारतीयपक्षे-असी द्रौपदी इच्छातिमनेन 'तापदिमा संभोश्यामि पवाद्विरस्यामि' इति वान्छाया भञ्जनमयेम रन्तुकामं निघ्नं पर- दारायसं नियमे व्रते न सक्तं तं कीचकं तेन विलासभावेन स्वस्थं स्वस्थचित्तं न चकार । श्लेषार्थान्तरन्यासौ ॥ सुरासुरातिक्रमविक्रमस्य दशास्यनामोद्वहतः स्खसारम् । सुतापयोगादभवत्सुदुःखा कामेषुममेषु कुतः सुखं वा ॥६॥ सुरेति ॥ सुरासुरातिक्रमविक्रमस्य देवदानवोलकिप्रतापस दशास्यनाम दशानननाम उद्बहतो दधतो रावणस्य स्वसा शूर्पणखा सुतापयोगात् पुत्रवियोगादरमत्यर्थ सुवुःखा- भवत् ॥ यतः कामेष्वभिलषितेषु भनेषु सुखं कुतः ॥ भारतीयपक्षे-सुरासुरातिक्रमवि- क्रमस्य सु अतिशयेन राः शब्दे' इति धातुनिष्पन्नत्वात्प्रकरणाच्च प्रलापशब्दौ यस्याः सा सुरा ताहशी सुरा मदिरा तस्याः सकाशादतिक्रमो निरस्तो विक्रमो यस्य स्वसारं सुष्ठ असारं कीचकं तस्य सच्छिद्रत्वात् । नाम उद्वहतः अस्य दशा सुतापसंबन्धात सुदुःखा अभवत् ॥ श्लेषार्थान्तरन्यासौ ॥ वैरन्तुकामं समुपेत्य रूपं तदीयमालोक्य च विभ्रमन्तम् । इयाय संमोहनमन्तरेऽस्मिन्विव्याध बाणैर्मकरध्वजोऽपि ॥ ७ ॥ वैरेति ॥ सा चूर्पणखा वैरं (सुतमारणेन) समुपेत्य तस्य लक्ष्मणस्येदं रूपं विभ्रमन्त पर्यटन्तं तं लक्ष्मणं च आलोक्य कामं यथेष्टं संमोहन वैचित्यमियाय । भवान्तरे मकर- ध्वजः कामो बाणैर्विव्याध ॥ भारतीयपक्षे-संमोहनं कर्ट वै निश्चयेन रन्तुकामं समुपेत्य तदीयं द्रौपदीयं रूपमालोक्य विभ्रमन्तमितस्ततः पर्यटन्तं तं कीचकम् इयाय ॥ श्लेषः ।। निश्वासमुष्णं वचनं निरुद्धं म्लानं मुखानं हृदयं सकम्पम्। श्रमादिवाङ्गं पुलकप्रसङ्गं पदेपदेऽसौ बिभरांबभूव ॥ ८ ॥ निःश्वासति ।। असौ शूर्पणखा कीचकश्च (कामपीडातः) पदे पदे श्रमादिव उष्णं निःश्वास निरुद्धं वचनं म्लानं मुखसरोजं सकम्पं हृदयं पुलकयुक्तमहं बिभरांबभूव ।। उत्प्रेक्षा ॥ श्वासानुबन्धात्परितापहेतोर्बाष्पानुपातान्मदनस्य पौष्पाः । • शरा नु वाताग्निजलात्मकाः स्युरिति क्षणं चिन्तयति स्म कंचित् ९ श्वासेति ॥ असौ शूर्पणखा कीचकश्च मदनस्य पौष्पा अपि शरा नासावातानुषजात संतापहेतोरभुजप्रपतनाद कारणाद् अनिलानलजलात्मकाः स्युः इति कंचित्क्षणम् अचि- न्तयत् ॥ स्वभावाख्यानम् ॥ विश्लेषणं वेत्ति न संधिकार्य स विग्रहं नैव समस्तसंस्थाम् । प्रागेव वेवेक्ति न तद्धितार्थ शब्दागमे प्राथमिकोऽभवद्वा ॥१०॥ Dogiced by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/५३&oldid=234531" इत्यस्माद् प्रतिप्राप्तम्