पृष्ठम्:Dvisandhanam kavya.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ काव्यमाला। माश्रम वा, वन कानारं रेच विषय वीर्थे च अतीत्य अतिक्रम्य गृढः संवृतः सन् दण्डक- लक्षितां दण्डकसंही भूमिम् आट गतवान् । भारतीयपक्षे-प्रदीप्त्या प्रतापेन गूढः संवृतः कोदण्डकलक्षितांसः धनुर्लक्षितस्कन्धः स स्फीतां विख्यातां विराटभूमिमू आर ॥ श्लेषः ।। सर्गेऽस्मिन्वृत्तमुपजातिः ॥ विहाय चापव्यवहारमुग्रं यथानियोग प्रयतोजितात्मा । निरूप्य तस्यां सकुलायभूमि योगीव कंचित्समयं निनाय ॥२॥ विहायेति ॥ स राजा तस्या भूमौ उग्रं तीवम् अपव्यवहारं विहाय कुलाय भ्रात्रुद्देशे न भूमि निरूप्य निवेद्य यद्वा कुलायाय नीडाय भूमि निर्णीय, यथानियोग यथापिटनिदेश यथाप्रतिकं च प्रयतो यतात्मा जितास्मा जितेन्द्रियः सन् योगीव कंचित्समयं निनाय ॥ योगिपक्षे-यथानियोगं यथाशास्त्रम् ॥ भारतीयपक्षे-अजितारमा अजितेन्द्रियो द्यूत- व्यसनोपहतः ॥श्लेषः। विरामभूमिः कमनीयतायाः कृष्णोदयानां विनिवासहेतुः।। समाययौ कामनिवेशमूर्तिस्तत्राभिमुख्यं किल कीचकस्य ॥ ३ ॥ विरामेति ॥ कमनीयताया मनोहरताया विरामभूमिर्विश्रामभूमिर्दयानां करुणानां वि. निवासहेतुः स्थितिकारणं कामनिवेशमूर्तिः कंदर्पस्थितिशरीरः कृष्णो लक्ष्मणस्तत्र भूमौ कीचकस्य वेणोराभिमुख्य समाययौ ॥ भारतीयपक्षे कृष्णा द्रौपदी उदयानां विनिवास- हेतुः कीचकस्य तदाख्यनृपस्य ॥श्लेषः।। विलासभावेन विलम्बमानं निस्त्रिंशमत्राहृतसूर्यहासम् । असौ निजग्राहमहोद्धतिस्तं पुण्यैकरूपेण वशं हि सर्वम् ॥ ४ ॥ विलासेति ॥ निजग्राहमहोद्धतिनिजेन प्राहेण महोद्धतिर्यस्यासौ लक्ष्मणो विलासभा- नवीनां पक्षिणां लासः क्रीडा यत्र तस्य भावेन गगनसमुदायेन विलम्बमान सूर्यहासं तदाख्य तं प्रसिद्ध निस्त्रिंशं खङ्गम् अत्रावसरे आहत ॥ पुण्यकरूपेण सर्व वशमात्माधीन यतो जायते ॥ भारतीवपक्षे-महोदतिर्महे उत्सवे उद्धतिर्यस्या असौ द्रौपदी निस्त्रिंश निर्दयम् , आहृतसूर्यहासम् आहतो लुप्तः सूर्यस्य हासो दीप्तिर्येन तं तिरस्कृतरविप्रतापं ते कीचकनृपं विलासभाबेन कटाक्षपातेन विलम्बमानं विशेषेण लम्बमानं क्रीडा कर्तु वर- यन्तं निजप्राह ज्ञातवती ॥ अर्थान्तरन्यासः ॥ इच्छातिभङ्गेन नरन्तुकामं तं तेन निघ्नन्नियमेन सक्तम् । स्वस्थं परं ज्योतिरसौ चकार नश्यन्ति वास्थानकृतप्रयासाः ॥५॥ इच्छति ॥ परं ज्योतीरूपोऽसौ लक्ष्मणः इच्छांतिभङ्गेन 'मुलावशेषमिदं वंशजालमनेन खडेन छिनधि इति वाञ्छातिभअनेन तं वंशजालं तेन खड्न निनन् सेछिन्दन् सन् नियमेन व्रतेन सक्तं संबद्धं नरे शूर्पणखापुत्रं शम्बुकुमारं कामं स्वस्थं स्वर्गस्थ चकार ॥ Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/५२&oldid=234504" इत्यस्माद् प्रतिप्राप्तम्