पृष्ठम्:Dvisandhanam kavya.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ काव्यमाला। क्या अच्युतोऽपरित्यक्तः सन् गहने भी स्थितवाम् ॥ भारतीयेस युधिष्ठिरः सी- तया क्षित्या च्युतः परित्यकः, द्रौपदिकानुजान्वितः द्रौपदिकया अनुजैधान्वितः गहने कान्तारे॥ अपि यस्य जगाम मुद्रया सकलो वारिनिधिः समुद्रताम् । हदि पश्यत संसृतेः स्थिति स नरेन्द्रोऽपि पदातितां गतः ॥३८॥ अपीति ॥ मुद्रया साहित्य सरित्पतिवं च समुद्रता ॥ शेषः ॥ अपि चीरिकया द्विषोऽभवन्ननु चामीकरदाश्श्युतौजसः । कुसुमैरपि यस्य पीडना शयने शार्करमध्यशेत सः ॥ ३९॥ अपि चीति ॥ नमु अहो यस्य चीरिकया लेखनेम अपि द्विषयुतौजसः नष्टपला भूत्वा चामीकरदा स्वर्णदा अभवन् । तथा यस्य शयने शय्यायां कुसुमैः पुष्पैरपि पीडना पीड अभवत् । स शार्करं शर्करावन्तं देशम् अध्यशेत ॥ घनसारसुगन्ध्ययाचितं हृदयज्ञैश्चषकेऽम्बु पायितः । स विमृग्य वयेष्वनापिवानटनीखातसमुच्छ्रितं पपौ ॥ ४०॥ घनसारेति ॥ हृदयझै त्यैः चपके पानपात्रे घनसारसुगन्धि कपूरवासितम् अयाचितम् अप्रार्थितम् अम्बु जलं यः पायितः स वनेषु विमृग्य अन्विष्य अनापिवानलब्धवान् सन् अटनीखातसमुचित धनुरप्रप्रदेशोक्लिखितनिर्गतं जलं पपी॥ कुलजं शमिनं बहुश्रुतं स्थिरसत्वं ध्रुवयुद्धमूर्जितम् । यदि तादृशमप्यपैति तन्न खलु श्रीः श्रिय एव ताहशी॥ ४१ ॥ कुलजमिति ॥ यदि तादृशं पूर्वार्धोक्तविशेषणयुक्तमपि खलु मिश्चयेन श्रीरपैति परित्य- जति तत् ताहि श्रियो लक्ष्म्या एव ताशी गुणवन्तं यतीति श्रीरिति निरुक्तिदर्शिता श्रीः शोभा न॥ क्रमशोऽतिजगाम नर्मदां स दुरन्तां जलधीरितोद्यमाम् । अवधीरणयातिलचिनी स्खलितप्रायगति प्रियामिव ॥ ४२ ॥ क्रमश इति ॥ स रामो युधिष्ठिरश्च । नर्मदा तमामकनदीम् । 'उपचारः स्त्रीपुंसयोर्म- नोजन्मनिबन्धनः । स एवात्र परिझेयो नर्मसंशः प्रयोक्तृभिः ॥' इत्युक्तलक्षणं नर्म ददाति तादृशं च, दुरत्ताम् अलभ्यमध्या, दुर्लक्ष्याशयां च,जलधीरितोयमां जलधये समुद्रगमनाय ईरित उद्यमो यया समुद्रगो जडधिया ईरित उद्यमो यया स्त्रियो हि जडधियः । जडेन धिया ईरित उद्यमो यस्याम् । सुधियस्तु मातृवत्परदारेषु वर्तन्ते । अवधीरणया हेलया अवज्ञया च अतिलपिनी अतिलानयोग्याम् । 'कृत्यल्युटः' इत्यत्र 'कृल्लयुटः' इत्यु- पन्यासात् । अतिदूरगमनशीलाम्, स्खलितप्रायगति स्खलितप्राया पतनप्राया गतिर्य. स्यास्तां मन्दमन्दगमनां च, प्रियां प्रीतिविषयां भार्या च ॥श्लेषोपमा ॥ । Digitized b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/४८&oldid=234500" इत्यस्माद् प्रतिप्राप्तम्