पृष्ठम्:Dvisandhanam kavya.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ सर्गः] द्विसंधानम् । धनस्य निजमातुः निजस्य आत्मन आत्मीयस्य वा मातुनिश्चायकस्येति विशेषः ॥ श्लेषः ॥ न विषादितया यदागमत्फलसिद्धि सुलभामसौ तदा । · प्रतिपद्य भुवःपति वरं कृतकाक्षं रमणं त्वयाचत ॥ ३४ ॥ . न वीति ।। यदा असौ कैकेयी विषादितया विषादेन सुलभां फलसिद्धि न अगमत् , तदा कृतकाक्ष कृतं प्राप्त के जलं ययोस्तै अक्षिणी यस्य साश्रुपातं तादृशं रमणं वल्लभ भुवःपति भूपतिं फलसिद्धि प्रतिपद्य वरम् अयाचत ॥ भारतीयपक्षे--असौ दुर्योधनः कृतकाक्षं कृतकाः कृत्रिमा अक्षाः पाशका यत्र तादृशं रमणं सारिद्यूतविषयकं वरं वर. प्रदानमयाचतेति विशेषः ॥ सकलत्रमपेक्ष्य सत्कुलं किल कैकेयमकार्यकारिका । ननुवेत्यनिरूप्य कैतवं मतिमौकजयेऽकरोत्प्रभुः ॥ ३५ ॥ सकलेति ॥ स प्रभुर्दशरथः सत्कुल निर्लाञ्छनान्वयम्, कलत्रं कैकेयीम् , कैकेयं भ- रतं च किल परमार्थतः, अपेक्ष्य अवधार्य, अकार्यकारिका अकार्यकारणा इति कैतवं कु- टिलस्वभावं वा अनिरूप्य अविचार्य, नन अहो. अवैकजये इन्द्रियैकपराभवे मति बद्धिम् अकरोत् ॥ राम संबोध्य कैकेयीवचनात्स्वप्रतिज्ञाभङ्गभयात् भरताय राज्यं दत्त्वा संसार- सागरोत्तरणकतरी दक्षिां चकारेति तात्पर्यम् ।। भारतीये-अभयुधिष्ठिरः ननु अहो का इयमेकासाधारणा अकार्यकारिका अकार्यजनिका इति कैतवं द्यूतव्यवहारम् , अनिरूप्य अपरिज्ञाय सकलत्रं स्वपरवर्गीयपालकम् , सच्छ्रेष्ठम् कुलम् अपेक्ष्य, अकजये पाशकैक- जये मति बुद्धिम् अकरोत् ।। स परेण तदाजितां महीं लघु मुक्त्वा सहसादरोदरैः । खगुरुस्थितिभङ्गभीरुकः प्रययौ भ्रातृबलेन काननम् ॥ ३६ ॥ स इति ॥ तदा स्वगुरुस्थितिभाभीरुकः आत्मीयजनकप्रतिज्ञाभाभीरुः, सादरः सो- धमः, स रामः, परेण शत्रुणा अजितां महीम्, अदरैनिर्भयैर्भटैः, सह लघु शीघ्र मुक्त्वा परित्यज्य भ्रातबलेन लक्ष्मणैकसहायेन काननं वनं प्रययौ गन्तुमारब्धवान् ।। भारतीये- स्वगुरुस्थितिभाभीरुका आत्मीयमहाप्रतिज्ञाभाभीरुः । परेण दुर्योधनेन दरोदरैः पाशकैः सहसा शीघ्र जितां महीं लघु मुक्ता भ्रातबलेन भीमार्जुननकुलसहदेवसहायेन ॥ स निवर्त्य समन्वितान्नृपास्तलवर्गान्सचिवान्पुरोधसः । स्थितवान्पथि सीतयाच्युतो गहनेद्रौपदिकानुजान्वितः ॥ ३७ ॥ स निवेति ॥ स रामः समन्वितान् अनुगन्तुमागतान् नृपान् राज्ञः, तलवर्गान् तलवर- नियोगितुरगसाधनिकादीन् , सचिवानमात्यान, पुरोधसः पुरोहितान् , पथि मार्गे निवर्त्य पश्चात्प्रस्थाप्य पदिकानुजान्वितः पद्भयामेव चरता अनुजेन अन्वितः सन् सीतया जान. Digicede, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/४७&oldid=234499" इत्यस्माद् प्रतिप्राप्तम्