पृष्ठम्:Dvisandhanam kavya.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ सर्गः] द्विसंधानम् । प्रथमस्त्रनयोऽभिषिच्यतामिति सापत्न्यभयादिवाजपत् । पलित तमुपेत्य कर्णयोनिजगुप्तिप्रशमो हि वर्धिमा ॥ २॥ प्रथमेति ॥ पलितम् तं राजानमुपेत्य कर्णयोः प्रथमस्तनयोऽभिषिच्यतामिति शत्रुत्व. भयादिव अजपत् । हि यतः निजौ गुप्तिप्रशमौ यस्य तादृशो वधिमा वार्धक्यम् ॥ अर्थान्तरन्यासः॥ विनिरूप्य स दर्पणे जरां निभृतं मौलिमुपोपवाजयन् । इति निर्विविदे विशांपतिविरतिं याति हि संसृतेर्बुधः ॥ ३ ॥ विनीति ॥ स विशांपतिनिभृतं संकुचितं मौलिम् उपोपवाजयन् विधुन्वन् । वो विधूनने जुक्' इति णौ जुगागमः ॥ सन् दर्पणे आदर्श जराम् अवलोक्य निर्विविदे नि. विण्णो बभूव । हि यतः बुधः संस्तेविरतिं याति ॥ अर्थान्तरन्यासः ॥ किमभुक्तमनुष्ठितं जनैर्यदपूर्व प्रतिपालयन्त्यमी । ननु भुक्तसमैव वेदना सुखनामा विषयेषु भाविषु ॥ ४॥ किमिति ॥ अमी जना यदपूर्वमदृष्टं प्रतिपालयन्ति प्रतीक्षन्ते । तत् किं अभुक्तमन- नुभूतं जनैरनुष्ठितम् । अपि तु भुक्तमेव ॥ ननु भाविनं वैषयिक भोगं प्रतीक्षन्ते इति चेत्, नैष दोषः । ननु च भाविषु विषयेषु, सुखमेव नाम यस्य तादृशी, वेदना विद्यते परिज्ञायते मनोव्यापारणेन्द्रियव्यापारोद्भवं सुखमनया सा अनुभवनमित्यर्थः । भक्तसमा भुक्तेन रमणीयेन स्रक्चन्दनादिविषयलक्षणेन समा अनुभवसमानकालिकैव ॥ शीतषहुले शिशिरे तृणामिसंयोगजसुखानुकारित्वाद्विषयाणामापदम्यत्वमवसानवैरस्यमिति भावः ।। त्यजतो न जहाति योऽखिलान्विषयांस्तद्विषयैकमानसः । स जहातु दुरन्तभावनामजहबृत्तिमिमां कथं जनः॥५॥ त्यजेति ॥ यस्त्यागं कुर्वतोऽप्यखिलान्विषयान् तेषु विषयेषु एकमसाधारणं मानसं यस्य तादृशः सन् न जहाति स जन इमां दुरन्तेषु रागादिषु भावनाम् अजहती वृत्ति- वर्तनं यस्यास्तां कथं जहातु । अपि तु न ॥ क्षणभङ्गुरमङ्गमङ्गिना न गता यौवनिका निवर्तते । विभवास्तृणवारिचञ्चला निचया मर्मरपत्रसंनिभाः ॥ ६ ॥ क्षणेति ॥ यौवनिका तरुणं वयः । तृणवारिवञ्चश्चलाः । मर्मरपत्रं शुष्कपर्णम् । नि- चया माद्यन्मित्रकलत्रपुत्रादयः ॥ उपमा ॥ द्विषि मित्रमति हितप्रिये रिपुबुद्धिं जनयन्ति जन्तवः । विपरीततया तनूभृतामिह तत्रापि दवीयसी मतिः ।। ७ ॥ द्विपीति ॥ जन्तवः द्विषि अनन्तसंसारभ्रमणहेतुत्वादेषणात्रयरूपे शत्रौ मित्रबुद्धि सहाय- Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/४१&oldid=234493" इत्यस्माद् प्रतिप्राप्तम्