पृष्ठम्:Dvisandhanam kavya.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० काव्यमाला। रव्याभासमामस्वरूपा रविरिवाभासमानं स्वरूप येषां तादृशा आलोकान्त क्रान्ती कीर्ति- प्रतापी येषां ताशास्ते रामादयः कौ पृथिव्यां तस्मिन्काले न्याय्यस्थित्या अपारपाराः समुदा इव अस्थुः ॥भारतीयपक्षे ते धार्तराष्ट्रा धृतराष्ट्रस्य पाण्डुज्येष्ठमातुरपत्यानि कौरव्या लीलया भासमानस्वरूपा दीप्यमानमूर्तय इति विशेषः ॥ श्लेषालंकारः॥ शालिनी वृत्तम् ।। सर्वस्वादुर्योधनेनार्जयित्वा दत्त्वा पित्रे येन संपत्फलानाम् ।। पृक्तास्तेन ज्यायसा भ्रातरस्ते जग्मुर्लोकालम्बनस्तम्भमूर्तिम् ॥ ४२ ॥ सर्वेति ॥ येन योधनेन सर्वस्वादुः सर्वेषां स्वपरवंशोद्भवानां साधुवृत्तीनां स्वादुः । विश्वरसिकेत्यर्थः । फलानां संपद् अर्जयित्वा उपाय॑ पित्रे दत्ता, तेन ज्यायसा ज्येष्ठेन रामेण पृक्ता युक्ता भ्रातरस्ते लक्ष्मणादयः लोकस्यालम्बनाय स्तम्भ इव मूर्ति जग्मुः॥ भारतीयपक्षे-येन दुर्योधनेन सर्वस्वा सर्वेषां स्वा आत्मीया फलानां संपत् अर्ज- यित्वा पित्रे धृतराष्ट्राय दप्ता इति विशेषः ॥ श्लेषोत्प्रेक्षा ॥ इति विनमयन्नुस्तब्धानतानतिवर्धय- न्स परिणमयन्पृथ्वी पुत्रैर्वसून्युपहारयन् । सुखमगमयत्कालं हर्ये सरन्परमेष्ठिनं नहि सुतवतां नामासाध्यं धनंजयमिच्छताम् ॥ ४३ ॥ इति श्रीधनंजयविरचिते धनंजयाके राघवपाण्डवीयापरनानि द्विसंधाने काव्ये राघवपाण्डवकौरवोत्पत्तिवर्णनस्तुतीयः सर्गः समाप्तः । इतीति ॥ स राजा दशरथः पाण्डुश्च, इति उक्तप्रकारेण पुत्रैः उच्चैस्तब्धान्पूिन वि. नमयन् विशेषेण नम्रीकारयन् , नतान् अतिवर्धयन् , पृथ्वी परिणमयन् हस्तेकारयन् , वसूनि द्रव्याणि उपहारयन् पुष्टिं प्रापयन्, परमेष्ठिनं स्मरन् स्मरणविषयं नयन, कालं समयं हर्ये सुखं यथा स्यात्तथा अगमयत् । हि यतः धनं जयं चच्छतां सुतवताम् अ- साध्यं नाम नास्ति ॥ अर्थान्तरन्यासः । हरिणीवृत्तम् ।। इति श्रीदाधीचजातिकुदालोपनामकश्रीच्छटीलालात्मजश्रीबदरीनाथविरचितायां द्विसंधानकाव्यटीकायां पुत्रोत्पत्तिवर्णनो नाम तृतीयः सर्गः । चतुर्थः सर्गः । अथ जातु न यौवनोदये सहवासाय ममायमस्मरत् । इति जातरुषेव भूपतेर्जरसागृह्यत केशवल्लरी ॥ १॥ अथेति ॥ अयं राजा युवावस्थायां सहवासाय कदापि मम माम् । 'अधीगर्थ- इति षष्ठी । नास्मरदिति जातरोषया इन जरया केशवालरी अगृह्यत ॥ उत्प्रेक्षा । सर्मे- ऽस्मिन्वैतालीय वृत्तम् ॥ Deated oGoogle

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/४०&oldid=234492" इत्यस्माद् प्रतिप्राप्तम्