पृष्ठम्:Dvisandhanam kavya.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। अथेति ॥ स लोकप्रसिद्धः । अप्रविक्रमः प्रधानविक्रमः, दशरथः, दिवानिशमहोरा- श्रम् ऋषिभिः प्रणीते धर्मे निरूपितान संयमान् स्मरन् सन्, इद्धं दीप्तमुत्कर्ष प्राप्तं शा. सनं यस्य तादृशः सन् पुरो नगरीसंबन्धिन्याः श्रियोऽधिष्ठानदेवतायाः शशिरुचिवत्पा- ण्डरमाननं विकासयन्नधिपतिरभवत् ॥ भारतीयपक्षे-पाण्डुः कर्ता शशिरुचीत्याननविशे. षणम् । पाण्डोविशेषणं सदशरथोप्रविक्रमः दसया संपूर्णयौवनैकया सहितश्वासौ रथेनो- प्रस्तीतो विक्रमः प्रतापो यस्य स चेत्यर्थकम् । अन्यत्समानम् ।। श्लेषः । सर्गेऽस्मिन्वै- श्वदेवीवृत्तम् ॥ उरः श्रियः स्थलकमलं भुजद्वयं समस्तरक्षणकरणार्गलायुगम् । जयश्रियः कृतकविहारपर्वतौ समुन्नते भुजशिरसी वभार यः ॥ २ ॥ उर इति ॥ यः श्रियो लक्ष्म्याः स्थितिकमलमुरो वक्षः, सकलरक्षाविधानपरिधाद्वितयं भुजद्वयं बाहुइन्द्वम्, जयत्रियो वीरलक्ष्म्याः कृत्रिमक्रीडाचलौ समुन्नते उच्चे भुजशिरसी स्कन्धौ वभार ॥ रूपकालंकारः । समुच्चय इति केचित् ॥ परित्रया बहुभरणेन च प्रजामवीवृधद्विधिविहितां यतोऽखिलाम् । ततः प्रजापतिरिति यो मतः सतां ध्रुवं प्रजापतिरपि यूथितां गतः ॥ ३ ॥ परीति ।। यतो विधिविहितामखिला प्रजा परित्रया समन्ताक्षणेन बहुभरणेन च अ- वीवृधत् वृद्धिमनैषीत् ॥ ततः कारणात् यो राजा प्रजापतिरिति सतां मतः, ध्रुवं निश्च- येन प्रजापतिः स्रष्टापि यूथितां गतः प्रजापतिसमूहमध्यं पतितः ॥ उत्प्रेक्षा ॥ न सममे दिशि दिशि निर्मलं यशो न पौरुषं रिपुषु वदान्यतार्थिषु । जगत्सु धी वि न चमूर्जनाशिषि श्रिया सह स्थितिरपि यस्य नायुषः ॥ ४ ॥ नेति ॥ यस्य राशोऽवदातं यशो दिशि दिशि, पौरुषं विक्रमो रिपुषु, वदान्यता बहु- प्रदता याचकेषु, धीः भुवनेषु, चमूः सेना पृथिव्याम्, लक्ष्म्या सह आयुषः स्थितिरपि जनाशिषि न संममे ॥ समुच्चयालंकारः ॥ गुणोऽखिलं वसु च परेण तवयं गृहीतमप्यभजत यत्र न व्ययम् । असत्यसंध्यवहृतिलोभविस्मयं परात्तमन्वममदशेषतः क्षयम् ॥ ५॥ गुण इति ॥ यत्र राशि परेण गृहीतमपि आत्मसात्कृतमपि गुणः स्वपरहिताहितवि- चारणा वसु हिरण्यादि द्रव्यं च अखिलं तद्भयम्, कर्थ नाशं नाभजत । अलीकलौकिकाचारः ममेदंभावः आश्चर्य (पूर्व) पररात्तमशेषतः निर्मूलतः क्षयं विनाशमन्वगमत् ॥ वक्रोक्तिः ॥ अभूद्गुरुर्बहुरुपदेश्यभूमतः स यस्य योऽजनि जगदेकसद्गुरुः । हिते जडे परमहिते च पण्डिते रहस्यमन्त्रयत न पञ्चकं नयम् ॥६॥ अभूदिति ॥ यस्य उपदेश्याना बहुलाबहुर्गुरुरभूत् , स जगतां लोकानामैकोऽसाधा- . Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२४&oldid=234470" इत्यस्माद् प्रतिप्राप्तम्