पृष्ठम्:Dvisandhanam kavya.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ सर्गः] द्विसंधानम् । असत्येति ॥ यस्यां पुरि पण्यदारतो वेश्याजनतः परे अन्ये अनृतप्रतिज्ञाः, अन्य- . जनप्रतारका; कृतकेन कर्मणा विहितोपचर्याः, क्षणानुरागिणः, चञ्चलाः, प्रचुरच्छमानो न । परिसंख्या ॥ गतारिपुत्रासगुणायशोधिकासमानवापीवरनिम्ननामिका । कथं कुलस्त्रीव सती सदानवा पुरी किल स्यादिति यत्र विस्मयः॥११॥ गतेति ॥ यत्र इति विस्मयो वर्तते । किम् । गता नष्टापलापिता आ समन्ताद्रिपव- स्वासगुणेन यस्याः सा, यशोधिका, समानासु चतुरस्रासु वापीषु वरं निर्मल निम्नं गभीरं नाभिभूतं मध्यभूतं कं जलं यत्र, सती समीचीना सदा सर्वदा नवा नूतना । दानवैर्दैत्यैः सहितापि समीचीनेतिविरोधः । परिहारस्तूक्तः। पुरी 'गता नष्टा कलत्रीव' कथं स्यात् । यतो नष्टकुलस्त्री, अरिपूणां बन्धूनां त्रासो भयमेव गुणो यस्याः सकाशात्, अयशोधिका निन्दाबहुला, असमानवा न समानो जातिकुलाभ्यां वो वलभो यस्याः, पीवरा घना निम्ना गम्भीरा नाभिस्तुन्दीर्यस्याः, सर्वदा नवा प्राप्तयौवनभरा भवति ॥ अथवा इयं पुरी कुल- स्त्रीव कथं न, अपि तु भवत्येव । यतः कुलनी, गतारिपुत्रा गता विनष्टा अरिभूतपुत्रा यस्याः, पुत्रा वैरिणो नेति भावः । सगुणा गुणैरौदार्यादिभिः सहिता, यशोधिका यशःप्र. चुरा, समा पितामाकुलेन तुल्या मया लक्ष्म्या सहिता वा, समानवल्लभा वा, अनवा । परसंनिधौ वृद्धव, अपि समन्ताद् या लक्ष्म्या शोभया वरा मनोज्ञा निम्ना नाभिर्यस्याः, सती पतिव्रता भवति । श्लेषोपमाविरोधाः ॥ को वा कविः पुरमिमां परमार्थवृत्त्या शक्नोति वर्णयितुमत्र विनिर्णयेन । नित्यं विधिः सततसंनिहितो विभूतिमन्यादृशं सृजति यत्र धनंजयाय॥५२॥ इति श्रीधनंजयविरचिते धनंजयाके राघवपाण्डवीयापरनानि विसंधानकाव्ये . अयोध्याहास्तिनापुरव्यावर्णनो नाम प्रथमः सर्गः।। को वेति ॥ यत्र अनवरतनिकटवर्ती विधिश्चतुर्मुखो विभूतिं संपदं अन्यादृशमपूर्व धन जयाय रामाय सृजति, तामिमा पुरं विनिर्णयेन परमार्थवृत्या वर्णयितुमन लोके कः कविः शक्नोति । भारतीयपक्षे-धनंजयाय अर्जुनाय । [यत्र काव्यै सततसंनिहितो वि. धिरिष्टदेवः अन्यादृशं अनन्यसाधारण विभूति पदरचनाप्रतिभा धनंजयाय कवये सजति ददाति । वसन्ततिलकावृत्तम् । आक्षेपालंकारः॥ . इति श्रीदाधीचजातिकुहालोपनामकधीच्छोटीलालात्मजश्रीबदरीनाथविरचितायो द्विसंधानकाव्यटीकायां पुरवर्णनो नाम प्रथमः सर्गः । द्वितीयः सर्गः। अथाभवत्सदशरथोमविक्रमः सरन्दिवानिशमृषिधर्मसंयमान् । पुरः श्रियः शशिरुचिपाण्डुराननं विकासयन्नधिपतिरिद्धशासनः ॥ १॥ Digated toGoogle

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२३&oldid=234469" इत्यस्माद् प्रतिप्राप्तम्